श्री महागणपति मूलमन्त्रः PDF संस्कृत
Download PDF of Sri Maha Ganapathi Moola Mantra Sanskrit
Misc ✦ Mantra (मंत्र संग्रह) ✦ संस्कृत
श्री महागणपति मूलमन्त्रः संस्कृत Lyrics
|| श्री महागणपति मूलमन्त्रः ||
अस्य श्रीमहागणपति महामन्त्रस्य गणक ऋषिः निचृद्गायत्री छन्दः महागणपतिर्देवता ओं गं बीजं स्वाहा शक्तिः ग्लौं कीलकं महागणपतिप्रीत्यर्थे जपे विनियोगः ।
करन्यासः –
ओं गां अङ्गुष्ठाभ्यां नमः ।
श्रीं गीं तर्जनीभ्यां नमः ।
ह्रीं गूं मध्यमाभ्यां नमः ।
क्लीं गैं अनामिकाभ्यां नमः ।
ग्लौं गौं कनिष्ठिकाभ्यां नमः ।
गं गः करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः –
ओं गां हृदयाय नमः ।
श्रीं गीं शिरसे स्वाहा ।
ह्रीं गूं शिखायै वषट् ।
क्लीं गैं कवचाय हुम् ।
ग्लौं गौं नेत्रत्रयाय वौषट् ।
गं गः अस्त्राय फट् ।
भूर्भुवस्सुवरों इति दिग्बन्धः ।
ध्यानम् –
बीजापूरगदेक्षुकार्मुकरुजाचक्राब्जपाशोत्पल-
-व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः ।
ध्येयो वल्लभया सपद्मकरयाऽऽश्लिष्टो ज्वलद्भूषया
विश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नेश इष्टार्थदः ॥
लमित्यादि पञ्चपूजा –
लं पृथिव्यात्मकं गन्धं समर्पयामि ।
हं आकाशात्मकं पुष्पं समर्पयामि ।
यं वाय्वात्मकं धूपमाघ्रापयामि ।
रं अग्न्यात्मकं दीपं दर्शयामि ।
वं अमृतात्मकं अमृतोपहारं निवेदयामि ।
मूलमन्त्रः –
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
हृदयादिन्यासः –
ओं गां हृदयाय नमः ।
श्रीं गीं शिरसे स्वाहा ।
ह्रीं गूं शिखायै वषट् ।
क्लीं गैं कवचाय हुम् ।
ग्लौं गौं नेत्रत्रयाय वौषट् ।
गं गः अस्त्राय फट् ।
भूर्भुवस्सुवरों इति दिग्विमोकः ।
ध्यानम् –
बीजापूरगदेक्षुकार्मुकरुजाचक्राब्जपाशोत्पल-
-व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः ।
ध्येयो वल्लभया सपद्मकरयाऽऽश्लिष्टो ज्वलद्भूषया
विश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नेश इष्टार्थदः ॥
लमित्यादि पञ्चपूजा –
लं पृथिव्यात्मकं गन्धं समर्पयामि ।
हं आकाशात्मकं पुष्पं समर्पयामि ।
यं वाय्वात्मकं धूपमाघ्रापयामि ।
रं अग्न्यात्मकं दीपं दर्शयामि ।
वं अमृतात्मकं अमृतोपहारं निवेदयामि ।
समर्पणं –
गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादान्मयि स्थिरा ॥
ओं शान्तिः शान्तिः शान्तिः ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री महागणपति मूलमन्त्रः

READ
श्री महागणपति मूलमन्त्रः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
