श्री मनसा देवी द्वादशनाम स्तोत्रम् (नागभय निवारण स्तोत्रम्) PDF संस्कृत
Download PDF of Sri Manasa Devi Dwadasa Nama Stotram Naga Bhaya Nivarana Stotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्री मनसा देवी द्वादशनाम स्तोत्रम् (नागभय निवारण स्तोत्रम्) संस्कृत Lyrics
|| श्री मनसा देवी द्वादशनाम स्तोत्रम् (नागभय निवारण स्तोत्रम्) ||
ओं नमो मनसायै ।
जरत्कारुर्जगद्गौरी मनसा सिद्धयोगिनी ।
वैष्णवी नागभगिनी शैवी नागेश्वरी तथा ॥ १ ॥
जरत्कारुप्रियाऽऽस्तीकमाता विषहरीती च ।
महाज्ञानयुता चैव सा देवी विश्वपूजिता ॥ २ ॥
द्वादशैतानि नामानि पूजाकाले च यः पठेत् ।
तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च ॥ ३ ॥
नागभीते च शयने नागग्रस्ते च मन्दिरे ।
नागक्षते नागदुर्गे नागवेष्टितविग्रहे ॥ ४ ॥
इदं स्तोत्रं पठित्वा तु मुच्यते नात्र संशयः ।
नित्यं पठेद्यस्तं दृष्ट्वा नागवर्गः पलायते ॥ ५ ॥
दशलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ।
स्तोत्रं सिद्धिं भवेद्यस्य स विषं भोक्तुमीश्वरः ॥ ६ ॥
नागौघं भूषणं कृत्वा स भवेन्नागवाहनः ।
नागासनो नागतल्पो महासिद्धो भवेन्नरः ॥ ७ ॥
इति श्रीब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे पञ्चचत्वारिंशोऽध्याये श्री मनसादेवी द्वादशनाम स्तोत्रम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री मनसा देवी द्वादशनाम स्तोत्रम् (नागभय निवारण स्तोत्रम्)
READ
श्री मनसा देवी द्वादशनाम स्तोत्रम् (नागभय निवारण स्तोत्रम्)
on HinduNidhi Android App