श्री मातङ्गी स्तोत्रम् PDF संस्कृत
Download PDF of Sri Matangi Stotram 3 Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्री मातङ्गी स्तोत्रम् संस्कृत Lyrics
|| श्री मातङ्गी स्तोत्रम् ||
नमामि वरदां देवीं सुमुखीं सर्वसिद्धिदाम् ।
सूर्यकोटिनिभां देवीं वह्निरूपां व्यवस्थिताम् ॥ १ ॥
रक्तवस्त्र नितम्बां च रक्तमाल्योपशोभिताम् ।
गुञ्जाहारस्तनाढ्यान्तां परं ज्योति स्वरूपिणीम् ॥ २ ॥
मारणं मोहनं वश्यं स्तम्भनाकर्षदायिनी ।
मुण्डकर्त्रिं शरावामां परं ज्योति स्वरूपिणीम् ॥ ३ ॥
स्वयम्भुकुसुमप्रीतां ऋतुयोनिनिवासिनीम् ।
शवस्थां स्मेरवदनां परं ज्योति स्वरूपिणीम् ॥ ४ ॥
रजस्वला भवेन्नित्यं पूजेष्टफलदायिनी ।
मद्यप्रियं रतिमयीं परं ज्योति स्वरूपिणीम् ॥ ५ ॥
शिव विष्णु विरञ्चिनां साद्यां बुद्धिप्रदायिनीम् ।
असाध्यं साधिनीं नित्यां परं ज्योति स्वरूपिणीम् ॥ ६ ॥
रात्रौ पूजा बलियुतां गोमांस रुधिरप्रियाम् ।
नानालङ्कारिणीं रौद्रीं पिशाचगणसेविताम् ॥ ७ ॥
इत्यष्टकं पठेद्यस्तु ध्यानरूपां प्रसन्नधीः ।
शिवरात्रौ व्रतेरात्रौ वारूणी दिवसेऽपिवा ॥ ८ ॥
पौर्णमास्याममावस्यां शनिभौमदिने तथा ।
सततं वा पठेद्यस्तु तस्य सिद्धि पदे पदे ॥ ९ ॥
इति एकजटा कल्पलतिका शिवदीक्षायान्तर्गतं श्री मातङ्गी स्तोत्रम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री मातङ्गी स्तोत्रम्

READ
श्री मातङ्गी स्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
