श्री मातङ्गिनी कवचम् (त्रैलोक्यमङ्गल कवचम्) PDF संस्कृत
Download PDF of Sri Matangini Kavacham Trailokya Mangala Kavacham Sanskrit
Misc ✦ Kavach (कवच संग्रह) ✦ संस्कृत
श्री मातङ्गिनी कवचम् (त्रैलोक्यमङ्गल कवचम्) संस्कृत Lyrics
|| श्री मातङ्गिनी कवचम् (त्रैलोक्यमङ्गल कवचम्) ||
श्रीदेव्युवाच ।
साधु साधु महादेव कथयस्व सुरेश्वर ।
मातङ्गीकवचं दिव्यं सर्वसिद्धिकरं नृणाम् ॥ १ ॥
श्री ईश्वर उवाच ।
शृणु देवि प्रवक्ष्यामि मातङ्गीकवचं शुभम् ।
गोपनीयं महादेवि मौनी जापं समाचरेत् ॥ २ ॥
अस्य श्रीमातङ्गीकवचस्य दक्षिणामूर्तिरृषिः विराट् छन्दः मातङ्गी देवता चतुर्वर्गसिद्ध्यर्थे विनियोगः ॥
ओं शिरो मातङ्गिनी पातु भुवनेशी तु चक्षुषी ।
तोडला कर्णयुगलं त्रिपुरा वदनं मम ॥ ३ ॥
पातु कण्ठे महामाया हृदि माहेश्वरी तथा ।
त्रिपुष्पा पार्श्वयोः पातु गुदे कामेश्वरी मम ॥ ४ ॥
ऊरुद्वये तथा चण्डी जङ्घयोश्च हरप्रिया ।
महामाया पादयुग्मे सर्वाङ्गेषु कुलेश्वरी ॥ ५ ॥
अङ्गं प्रत्यङ्गकं चैव सदा रक्षतु वैष्णवी ।
ब्रह्मरन्ध्रे सदा रक्षेन्मातङ्गी नाम संस्थिता ॥ ६ ॥
रक्षेन्नित्यं ललाटे सा महापिशाचिनीति च ।
नेत्रायोः सुमुखी रक्षेद्देवी रक्षतु नासिकाम् ॥ ७ ॥
महापिशाचिनी पायान्मुखे रक्षतु सर्वदा ।
लज्जा रक्षतु मां दन्तान् चोष्ठौ सम्मार्जनीकरी ॥ ८ ॥
चिबुके कण्ठदेशे तु ठकारत्रितयं पुनः ।
सविसर्गं महादेवि हृदयं पातु सर्वदा ॥ ९ ॥
नाभिं रक्षतु मां लोला कालिकावतु लोचने ।
उदरे पातु चामुण्डा लिङ्गे कात्यायनी तथा ॥ १० ॥
उग्रतारा गुदे पातु पादौ रक्षतु चाम्बिका ।
भुजौ रक्षतु शर्वाणी हृदयं चण्डभूषणा ॥ ११ ॥
जिह्वायां मातृका रक्षेत्पूर्वे रक्षतु पुष्टिका ।
विजया दक्षिणे पातु मेधा रक्षतु वारुणे ॥ १२ ॥
नैरृत्यां सुदया रक्षेद्वायव्यां पातु लक्ष्मणा ।
ऐशान्यां रक्षेन्मां देवी मातङ्गी शुभकारिणी ॥ १३ ॥
रक्षेत्सुरेशी चाग्नेय्यां बगला पातु चोत्तरे ।
ऊर्ध्वं पातु महादेवी देवानां हितकारिणी ॥ १४ ॥
पाताले पातु मा नित्यं वशिनी विश्वरूपिणी ।
प्रणवं च तमोमाया कामबीजं च कूर्चकम् ॥ १५ ॥
मातङ्गिनी ङेयुतास्त्रं वह्निजायावधिर्मनुः ।
सार्धैकादशवर्णा सा सर्वत्र पातु मां सदा ॥ १६ ॥
इति ते कथितं देवि गुह्याद्गुह्यतरं परम् ।
त्रैलोक्यमङ्गलं नाम कवचं देवदुर्लभम् ॥ १७ ॥
य इदं प्रपठेन्नित्यं जायते सम्पदालयम् ।
परमैश्वर्यमतुलं प्राप्नुयान्नात्र संशयः ॥ १८ ॥
गुरुमभ्यर्च्य विधिवत्कवचं प्रपठेद्यदि ।
ऐश्वर्यं सुकवित्वं च वाक्सिद्धिं लभते ध्रुवम् ॥ १९ ॥
नित्यं तस्य तु मातङ्गी महिला मङ्गलं चरेत् ।
ब्रह्मा विष्णुश्च रुद्रश्च ये देवाः सुरसत्तमाः ॥ २० ॥
ब्रह्मराक्षसवेताला ग्रहाद्या भूतजातयः ।
तं दृष्ट्वा साधकं देवि लज्जायुक्ता भवन्ति ते ॥ २१ ॥
कवचं धारयेद्यस्तु सर्वसिद्धिं लभेद्ध्रुवम् ।
राजानोऽपि च दासाः स्युः षट्कर्माणि च साधयेत् ॥ २२ ॥
सिद्धो भवति सर्वत्र किमन्यैर्बहुभाषितैः ।
इदं कवचमज्ञात्वा मातङ्गीं यो भजेन्नरः ॥ २३ ॥
अल्पायुर्निर्धनो मूर्खो भवत्येव न संशयः ।
गुरौ भक्तिः सदा कार्या कवचे च दृढा मतिः ॥ २४ ॥
तस्मै मातङ्गिनी देवी सर्वसिद्धिं प्रयच्छति ॥ २५ ॥
इति नन्द्यावर्ते उत्तरखण्डे मातङ्गिनी कवचम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री मातङ्गिनी कवचम् (त्रैलोक्यमङ्गल कवचम्)

READ
श्री मातङ्गिनी कवचम् (त्रैलोक्यमङ्गल कवचम्)
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
