श्री मट्टपल्लि नृसिंह मङ्गलाष्टकम् PDF संस्कृत
Download PDF of Sri Mattapalli Narasimha Mangalashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्री मट्टपल्लि नृसिंह मङ्गलाष्टकम् संस्कृत Lyrics
|| श्री मट्टपल्लि नृसिंह मङ्गलाष्टकम् ||
मट्टपल्लिनिवासाय मधुरानन्दरूपिणे ।
महायज्ञस्वरूपाय श्रीनृसिंहाय मङ्गलम् ॥ १ ॥
कृष्णवेणीतटस्थाय सर्वाभीष्टप्रदायिने ।
प्रह्लादप्रियरूपाय श्रीनृसिंहाय मङ्गलम् ॥ २ ॥
कर्तस्थिताय धीराय गम्भीराय महात्मने ।
सर्वारिष्टविनाशाय श्रीनृसिंहाय मङ्गलम् ॥ ३ ॥
ऋग्यजुः सामरूपाय मन्त्रारूढाय धीमते ।
श्रितानां कल्पवृक्षाय श्रीनृसिंहाय मङ्गलम् ॥ ४ ॥
गुहाशयाय गुह्याय गुह्यविद्यास्वरूपिणे ।
गुहरान्ते विहाराय श्रीनृसिंहाय मङ्गलम् ॥ ५ ॥
श्रीपल्यद्रिमध्यस्थाय निधये मधुराय च ।
सुखप्रदाय देवाय श्रीनृसिंहाय मङ्गलम् ॥ ६ ॥
तापनीयरहस्याय तापत्रयविनाशिने ।
नतानां पारिजाताय श्रीनृसिंहाय मङ्गलम् ॥ ७ ॥
राज्यलक्ष्म्या समेताय रागद्वेषविनाशिने
मट्टपल्लिनिवासाय श्रीनृसिंहाय मङ्गलम् ॥ ८ ॥
मुक्कूर् नृसिंहदासेन प्रोक्तं मङ्गलमद्भुतम् ।
यः पठेच्छ्रद्धया भक्त्या सर्वपापैर्विमुच्यते ॥ ९ ॥
इति श्रीमुक्कूर् लक्ष्मीनृसिंहस्वामिना अनुगृहीतं श्री मट्टपल्लि नृसिंह मङ्गलाष्टकम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री मट्टपल्लि नृसिंह मङ्गलाष्टकम्
READ
श्री मट्टपल्लि नृसिंह मङ्गलाष्टकम्
on HinduNidhi Android App