श्री नृसिंह पञ्चामृत स्तोत्रम् (श्रीराम कृतम्) PDF संस्कृत
Download PDF of Sri Narasimha Panchamruta Stotram Sri Rama Krutam Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्री नृसिंह पञ्चामृत स्तोत्रम् (श्रीराम कृतम्) संस्कृत Lyrics
|| श्री नृसिंह पञ्चामृत स्तोत्रम् (श्रीराम कृतम्) ||
अहोबिलं नारसिंहं गत्वा रामः प्रतापवान् ।
नमस्कृत्वा श्रीनृसिंहं अस्तौषीत् कमलापतिम् ॥ १ ॥
गोविन्द केशव जनार्दन वासुदेव
विश्वेश विश्व मधुसूदन विश्वरूप ।
श्रीपद्मनाभ पुरुषोत्तम पुष्कराक्ष
नारायणाच्युत नृसिंह नमो नमस्ते ॥ २ ॥
देवाः समस्ताः खलु योगिमुख्याः
गन्धर्व विद्याधर किन्नराश्च ।
यत्पादमूलं सततं नमन्ति
तं नारसिंहं शरणं गतोऽस्मि ॥ ३ ॥
वेदान् समस्तान् खलु शास्त्रगर्भान्
विद्याबले कीर्तिमतीं च लक्ष्मीम् ।
यस्य प्रसादात् सततं लभन्ते
तं नारसिंहं शरणं गतोऽस्मि ॥ ४ ॥
ब्रह्मा शिवस्त्वं पुरुषोत्तमश्च
नारायणोऽसौ मरुतां पतिश्च ।
चन्द्रार्क वाय्वग्नि मरुद्गणाश्च
त्वमेव तं त्वां सततं नतोऽस्मि ॥ ५ ॥
स्वप्नेऽपि नित्यं जगतां त्रयाणां
स्रष्टा च हन्ता विभुरप्रमेयः ।
त्राता त्वमेकस्त्रिविधो विभिन्नः
तं त्वां नृसिंहं सततं नतोऽस्मि ॥ ६ ॥
इति स्तुत्वा रघुश्रेष्ठः पूजयामास तं विभुम् ।
पुष्पवृष्टिः पपाताशु तस्य देवस्य मूर्धनि ।
साधु साध्विति तं प्रोचुः देवा ऋषिगणैः सह ॥ ७ ॥
देवाः ऊचुः ।
राघवेण कृतं स्तोत्रं पञ्चामृतमनुत्तमम् ।
पठन्ति ये द्विजवरास्तेषां स्वर्गस्तु शाश्वतः ॥ ८ ॥
इति श्रीराम कृत श्री नृसिंह पञ्चामृत स्तोत्रम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री नृसिंह पञ्चामृत स्तोत्रम् (श्रीराम कृतम्)

READ
श्री नृसिंह पञ्चामृत स्तोत्रम् (श्रीराम कृतम्)
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
