श्री नृसिंह स्तुतिः 2 PDF संस्कृत
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
|| श्री नृसिंह स्तुतिः 2 || सुरासुरशिरोरत्नकान्तिविच्छुरिताङ्घ्रये । नमस्त्रिभुवनेशाय हरये सिंहरूपिणे ॥ १ ॥ शत्रोः प्राणानिलाः पञ्च वयं दश जयोऽत्र कः । इति कोपादिवाताम्राः पान्तु वो नृहरेर्नखाः ॥ २ ॥ प्रोज्ज्वलज्ज्वलनज्वालाविकटोरुसटाच्छटः । श्वासक्षिप्तकुलक्ष्माभृत्पातु वो नरकेसरी ॥ ३ ॥ व्याधूतकेसरसटाविकरालवक्त्रं हस्ताग्रविस्फुरितशङ्खगदासिचक्रम् । आविष्कृतं सपदि येन नृसिंहरूपं नारायणं तमपि विश्वसृजं नमामि ॥ ४ ॥ दैत्यास्थिपञ्जरविदारणलब्धरन्ध्र- -रक्ताम्बुनिर्जरसरिद्धनजातपङ्काः ।...
READ WITHOUT DOWNLOADश्री नृसिंह स्तुतिः 2
READ
श्री नृसिंह स्तुतिः 2
on HinduNidhi Android App