Misc

श्री नीलसरस्वती स्तोत्रम्

Sri Neela Saraswati Stotram Sanskrit Lyrics

Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री नीलसरस्वती स्तोत्रम् ||

घोररूपे महारावे सर्वशत्रुभयङ्करि ।
भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम् ॥ १ ॥

सुराऽसुरार्चिते देवि सिद्धगन्धर्वसेविते ।
जाड्यपापहरे देवि त्राहि मां शरणागतम् ॥ २ ॥

जटाजूटसमायुक्ते लोलजिह्वान्तकारिणी ।
द्रुतबुद्धिकरे देवि त्राहि मां शरणागतम् ॥ ३ ॥

सौम्यक्रोधधरे रूपे चण्डरूपे नमोऽस्तु ते ।
सृष्टिरूपे नमस्तुभ्यं त्राहि मां शरणागतम् ॥ ४ ॥

जडानां जडतां हन्ति भक्तानां भक्तवत्सला ।
मूढतां हर मे देवि त्राहि मां शरणागतम् ॥ ५ ॥

ह्रूं ह्रूङ्करमये देवि बलिहोमप्रिये नमः ।
उग्रतारे नमो नित्यं त्राहि मां शरणागतम् ॥ ६ ॥

बुद्धिं देहि यशो देहि कवित्वं देहि देवि मे ।
मूढत्वं च हरेर्देवि त्राहि मां शरणागतम् ॥ ७ ॥

इन्द्रादिविलसद्वन्द्ववन्दिते करुणामयि ।
तारे तारधिनाथास्ये त्राहि मां शरणागतम् ॥ ८ ॥

अष्टम्यां च चतुर्दश्यां नवम्यां यः पठेन्नरः ।
षण्मासैः सिद्धिमाप्नोति नाऽत्र कार्या विचारणा ॥ ९ ॥

मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां तर्कव्याकरणादिकम् ॥ १० ॥

इदं स्तोत्रम् पठेद्यस्तु सततं श्रद्धयान्वितः ।
तस्य शत्रुः क्षयं याति महाप्रज्ञा प्रजायते ॥ ११ ॥

पीडायां वापि सङ्ग्रामे जाड्ये दाने तथा भये ।
य इदं पठति स्तोत्रम् शुभं तस्य न संशयः ॥ १२ ॥

इति प्रणम्य स्तुत्वा च योनिमुद्रां प्रदर्शयेत् ॥

इति श्री नीलसरस्वती स्तोत्रम् ॥

Found a Mistake or Error? Report it Now

Download श्री नीलसरस्वती स्तोत्रम् PDF

श्री नीलसरस्वती स्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App