Misc

श्री राधाकृष्ण स्तोत्रम् (गन्धर्व कृतम्)

Sri Radha Krishna Stotram Gandharva Krutam Sanskrit Lyrics

Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री राधाकृष्ण स्तोत्रम् (गन्धर्व कृतम्) ||

वन्दे नवघनश्यामं पीतकौशेयवाससम् ।
सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परम् ॥ १ ॥

राधेशं राधिकाप्राणवल्लभं वल्लवीसुतम् ।
राधासेवितपादाब्जं राधावक्षःस्थलस्थितम् ॥ २ ॥

राधानुगं राधिकेष्टं राधापहृतमानसम् ।
राधाधारं भवाधारं सर्वाधारं नमामि तम् ॥ ३ ॥

राधाहृत्पद्ममध्ये च वसन्तं सततं शुभम् ।
राधासहचरं शश्वद्राधाज्ञापरिपालकम् ॥ ४ ॥

ध्यायन्ते योगिनो योगान् सिद्धाः सिद्धेश्वराश्च यम् ।
तं ध्यायेत् सततं शुद्धं भगवन्तं सनातनम् ॥ ५ ॥

सेवन्ते सततं सन्तोऽशेषब्रह्मेशसञ्ज्ञिकाः ।
सेवन्ते निर्गुणं ब्रह्म भगवन्तं सनातनम् ॥ ६ ॥

निर्लिप्तं च निरीहं च परमात्मानमीश्वरम् ।
नित्यं सत्यं च परमं भगवन्तं सनातनम् ॥ ७ ॥

यं सृष्टेरादिभूतं च सर्वबीजं परात्परम् ।
योगिनस्तं प्रपद्यन्ते भगवन्तं सनातनम् ॥ ८ ॥

बीजं नानावताराणां सर्वकारणकारणम् ।
वेदवेद्यं वेदबीजं वेदकारणकारणम् ॥ ९ ॥

योगिनस्तं प्रपद्यन्ते भगवन्तं सनातनम् ।
गन्धर्वेण कृतं स्तोत्रं यं पठेत् प्रयतः शुचिः ।
इहैव जीवन्मुक्तश्च परं याति परां गतिम् ॥ १० ॥

हरिभक्तिं हरेर्दास्यं गोलोकं च निरामयम् ।
पार्षदप्रवरत्वं च लभते नाऽत्र संशयः ॥ १२ ॥

इति श्रीनारादपञ्चरात्रे श्री राधाकृष्ण स्तोत्रम् ॥

Found a Mistake or Error? Report it Now

Download श्री राधाकृष्ण स्तोत्रम् (गन्धर्व कृतम्) PDF

श्री राधाकृष्ण स्तोत्रम् (गन्धर्व कृतम्) PDF

Leave a Comment

Join WhatsApp Channel Download App