श्री राघवेन्द्र मङ्गलाष्टकम् PDF

श्री राघवेन्द्र मङ्गलाष्टकम् PDF संस्कृत

Download PDF of Sri Raghavendra Mangalashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत

|| श्री राघवेन्द्र मङ्गलाष्टकम् || श्रीमद्रामपादारविन्दमधुपः श्रीमध्ववंशाधिपः सच्चिष्योडुगणोडुपः श्रितजगद्गीर्वाणसत्पादपः । अत्यर्थं मनसा कृताच्युतजपः पापान्धकारातपः श्रीमत्सद्गुरुराघवेन्द्रयतिराट् कुर्याद्ध्रुवं मङ्गलम् ॥ १ ॥ कर्मन्दीन्द्रसुधीन्द्रसद्गुरुकराम्भोजोद्भवः सन्ततं प्राज्यध्यानवशीकृताखिलजगद्वास्तव्यलक्ष्मीधवः । सच्छास्त्रादि विदूषकाखिलमृषावादीभकण्ठीरवः श्रीमत्सद्गुरुराघवेन्द्रयतिराट् कुर्याद्ध्रुवं मङ्गलम् ॥ २ ॥ सालङ्कारककाव्यनाटककलाकाणादपातञ्जल त्रय्यर्थस्मृतिजैमिनीयकवितासङ्गीतपारङ्गतः । विप्रक्षत्रविडङ्घ्रिजातमुखरानेकप्रजासेवितः श्रीमत्सद्गुरुराघवेन्द्रयतिराट् कुर्याद्ध्रुवं मङ्गलम् ॥ ३ ॥ रङ्गोत्तुङ्गतरङ्गमङ्गलकर श्रीतुङ्गभद्रातट प्रत्यक्स्थद्विजपुङ्गवालय लसन्मन्त्रालयाख्ये पुरे । नव्येन्द्रोपलनीलभव्यकरसद्वृन्दावनान्तर्गतः श्रीमत्सद्गुरुराघवेन्द्रयतिराट् कुर्याद्ध्रुवं मङ्गलम् ॥ ४ ॥...

READ WITHOUT DOWNLOAD
श्री राघवेन्द्र मङ्गलाष्टकम्
Share This
श्री राघवेन्द्र मङ्गलाष्टकम् PDF
Download this PDF