श्री रामचन्द्र स्तुतिः PDF संस्कृत
Download PDF of Sri Rama Chandra Stuti Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
श्री रामचन्द्र स्तुतिः संस्कृत Lyrics
|| श्री रामचन्द्र स्तुतिः ||
नमामि भक्तवत्सलं कृपालु शीलकोमलं
भजामि ते पदाम्बुजं ह्यकामिनां स्वधामदम् ।
निकामश्यामसुन्दरं भवाम्बुवार्धिमन्दरं
प्रफुल्लकञ्जलोचनं मदादिदोषमोचनम् ॥ १ ॥
प्रलम्बबाहुविक्रमं प्रभोऽप्रमेयवैभवं
निषङ्गचापसायकं धरं त्रिलोकनायकम् ।
दिनेशवंशमण्डनं महेशचापखण्डनं
मुनीन्द्रचित्तरञ्जनं सुरारिबृन्दभञ्जनम् ॥ २ ॥
मनोजवैरिवन्दितं ह्यजादिदेवसेवितं
विशुद्धबोधविग्रहं समस्तदूषणापहम् ।
नमामि जानकीपतिं सुखाकरं सतां गतिं
भजे सशक्तिसानुजं शचीपतिप्रियानुजम् ॥ ३ ॥
त्वदङ्घ्रिसीम ये नरा भजन्ति हीनमत्सराः
पतन्ति नो भवार्णवे वितर्कवीचिसङ्कुले ।
विविक्तवासिनः सदा भजन्ति मुक्तये मुदा
निरस्य हीन्द्रियादिकं प्रयान्ति ते गतिं स्वकम् ॥ ४ ॥
त्वमेकमद्भुतं प्रभुं निरीहमीश्वरं विभुं
जगद्गुरुं च शाश्वतं तुरीयमेव केवलम् ।
भजामि भाववल्लभं सुयोगिनां सुदुर्लभं
स्वभक्तकल्पपादपं समस्तसेव्यमन्वहम् ॥ ५ ॥
अनूपरूपभूपतिं नतोऽहमुर्विजापतिं
प्रसीद मे नमामि ते पदाब्जभक्ति देहि मे ।
पठन्ति ये स्तवं त्विदं सदादरेण ते पदं
व्रजन्ति नात्र संशयं त्वदीय भक्तिसम्युताः ॥ ६ ॥
इति श्रीरामचन्द्र स्तुतिः ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री रामचन्द्र स्तुतिः

READ
श्री रामचन्द्र स्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
