श्री रमापत्यष्टकम् PDF संस्कृत
Download PDF of Sri Ramapati Ashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्री रमापत्यष्टकम् संस्कृत Lyrics
|| श्री रमापत्यष्टकम् (Ramapati Ashtakam PDF) ||
जगदादिमनादिमजं पुरुषं
शरदम्बरतुल्यतनुं वितनुम् ।
धृतकञ्जरथाङ्गगदं विगदं
प्रणमामि रमाधिपतिं तमहम् ॥ १ ॥
कमलाननकञ्जरतं विरतं
हृदि योगिजनैः कलितं ललितम् ।
कुजनैः सुजनैरलभं सुलभं
प्रणमामि रमाधिपतिं तमहम् ॥ २ ॥
मुनिबृन्दहृदिस्थपदं सुपदं
निखिलाध्वरभागभुजं सुभुजम् ।
हृतवासवमुख्यमदं विमदं
प्रणमामि रमाधिपतिं तमहम् ॥ ३ ॥
हृतदानवदृप्तबलं सुबलं
स्वजनास्तसमस्तमलं विमलम् ।
समपास्त गजेन्द्रदरं सुदरं
प्रणमामि रमाधिपतिं तमहम् ॥ ४ ॥
परिकल्पितसर्वकलं विकलं
सकलागमगीतगुणं विगुणम् ।
भवपाशनिराकरणं शरणं
प्रणमामि रमाधिपतिं तमहम् ॥ ५ ॥
मृतिजन्मजराशमनं कमनं
शरणागतभीतिहरं दहरम् ।
परिपुष्टमहाहृदयं सुदयं
प्रणमामि रमाधिपतिं तमहम् ॥ ६ ॥
सकलावनिबिम्बधरं स्वधरं
परिपूरितसर्वदिशं सुदृशम् ।
गतशोकमशोककरं सुकरं
प्रणमामि रमाधिपतिं तमहम् ॥ ७ ॥
मथितार्णवराजरसं सरसं
ग्रथिताखिललोकहृदं सुहृदम् ।
प्रथिताद्भुतशक्तिगुणं सुगुणं
प्रणमामि रमाधिपतिं तमहम् ॥ ८ ॥
सुखराशिकरं भवबन्धहरं
परमाष्टकमेतदनन्यमतिः ।
पठतीह तु योऽनिशमेव नरो
लभते खलु विष्णुपदं स परम् ॥ ९ ॥
इति श्रीमत्परमहंस स्वामि ब्रह्मानन्द विरचितं श्री रमापत्यष्टकम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री रमापत्यष्टकम्

READ
श्री रमापत्यष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
