श्री रवि सप्तति रहस्यनाम स्तोत्रम् PDF संस्कृत
Download PDF of Sri Ravi Saptati Nama Stotram Sanskrit
Surya Dev ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्री रवि सप्तति रहस्यनाम स्तोत्रम् संस्कृत Lyrics
|| श्री रवि सप्तति रहस्यनाम स्तोत्रम् PDF ||
हंसो भानुः सहस्रांशुस्तपनस्तापनो रविः ।
विकर्तनो विवस्वांश्च विश्वकर्मा विभावसुः ॥ १ ॥
विश्वरूपो विश्वकर्ता मार्तण्डो मिहिरोऽम्शुमान् ।
आदित्यश्चोष्णगुः सूर्योऽर्यमा ब्रध्नो दिवाकरः ॥ २ ॥
द्वादशात्मा सप्तहयो भास्करो हस्करः खगः ।
सूरः प्रभाकरः श्रीमान् लोकचक्षुर्ग्रहेश्वरः ॥ ३ ॥
त्रिलोकेशो लोकसाक्षी तमोऽरिः शाश्वतः शुचिः ।
गभस्तिहस्तस्तीव्रांशुस्तरणिः सुमहोरणिः ॥ ४ ॥
द्युमणिर्हरिदश्वोऽर्को भानुमान् भयनाशनः ।
छन्दोश्वो वेदवेद्यश्च भास्वान् पूषा वृषाकपिः ॥ ५ ॥
एकचक्ररथो मित्रो मन्देहारिस्तमिस्रहा ।
दैत्यहा पापहर्ता च धर्मो धर्मप्रकाशकः ॥ ६ ॥
हेलिकश्चित्रभानुश्च कलिघ्नस्तार्क्ष्यवाहनः । [दोषघ्नः]
दिक्पतिः पद्मनीनाथः कुशेशयकरो हरिः ॥ ७ ॥
घर्मरश्मिर्दुर्निरीक्ष्यश्चण्डांशुः कश्यपात्मजः ।
एभिः सप्ततिसङ्ख्याकैः पुण्यैः सूर्यस्य नामभिः ॥ ८ ॥
इति स्कन्दपुराणे काशीखण्डे नवमोऽध्याये श्री सूर्य सप्ततिनाम स्तोत्रम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री रवि सप्तति रहस्यनाम स्तोत्रम्

READ
श्री रवि सप्तति रहस्यनाम स्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
