श्री शबरिगिरिपत्यष्टकम् PDF संस्कृत
Download PDF of Sri Sabari Giripati Ashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्री शबरिगिरिपत्यष्टकम् संस्कृत Lyrics
|| श्री शबरिगिरिपत्यष्टकम् ||
शबरिगिरिपते भूतनाथ ते
जयतु मङ्गलं मञ्जुलं महः ।
मम हृदिस्थितं ध्वान्तरं तव
नाशयद्विदं स्कन्दसोदर ॥ १ ॥
कान्तगिरिपते कामितार्थदं
कान्तिमत्तव काङ्क्षितं मया ।
दर्शयाद्भुतं शान्तिमन्महः
पूरयार्थितं शबरिविग्रह ॥ २ ॥
पम्पयाञ्चिते परममङ्गले
दुष्टदुर्गमे गहनकानने ।
गिरिशिरोवरे तपसिलालसं
ध्यायतां मनो हृष्यति स्वयम् ॥ ३ ॥
त्वद्दिदृक्षय सञ्चितव्रता-
-स्तुलसिमालिकः कम्रकन्धरा ।
शरणभाषिण शङ्घसोजन
कीर्तयन्ति ते दिव्यवैभवम् ॥ ४ ॥
दुष्टशिक्षणे शिष्टरक्षणे
भक्तकङ्कणे दिशति ते गणे ।
धर्मशास्त्रे त्वयि च जाग्रति
संस्मृते भयं नैव जायते ॥ ५ ॥
पूर्णपुष्कला सेविताऽप्यहो
योगिमानसाम्भोज भास्करः ।
हरिगजादिभिः परिवृतो भवान्
निर्भयः स्वयं भक्तभीहरः ॥ ६ ॥
वाचि वर्ततां दिव्यनाम ते
मनसि सन्ततं तावकं महः ।
श्रवणयोर्भवद्गुणगणावलि-
-र्नयनयोर्भवन्मूर्तिरद्भुताः ॥ ७ ॥
करयुगं मम त्वद्पदार्चने
पदयुगं सदा त्वत्प्रदक्षिणे ।
जीवितं भवन्मूर्तिपूजने
प्रणतमस्तु ते पूर्णकरुणया ॥ ८ ॥
इति श्री शबरिगिरिपत्यष्टकम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री शबरिगिरिपत्यष्टकम्

READ
श्री शबरिगिरिपत्यष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
