श्री शबरिगिरिवास स्तोत्रम् PDF संस्कृत
Download PDF of Sri Sabarigirivasa Stotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्री शबरिगिरिवास स्तोत्रम् संस्कृत Lyrics
|| श्री शबरिगिरिवास स्तोत्रम् ||
शबरिगिरिनिवासं शान्तहृत्पद्महंसं
शशिरुचिमृदुहासं श्यामलाम्बोधभासम् ।
कलितरिपुनिरासं कान्तमुत्तुङ्गनासं
नतिनुतिपरदासं नौमि पिञ्छावतंसम् ॥ १ ॥
शबरिगिरिनिशान्तं शङ्खकुन्देन्दुदन्तं
शमधनहृदिभान्तं शत्रुपालीकृतान्तम् ।
सरसिजरिपुकान्तं सानुकम्पेक्षणान्तं
कृतनुतविपदन्तं कीर्तयेऽहं नितान्तम् ॥ २ ॥
शबरिगिरिकलापं शास्त्रवद्ध्वान्तदीपं
शमितसुजनतापं शान्तिहानैर्दुरापम् ।
करधृतसुमचापं कारणोपात्तरूपं
कचकलितकलापं कामये पुष्कलाभम् ॥ ३ ॥
शबरिगिरिनिकेतं शङ्करोपेन्द्रपोतं
शकलितदितिजातं शत्रुजीमूतपातम् ।
पदनतपुरहूतं पालिताशेषभूतं
भवजलनिधिपोतं भावये नित्यभूतम् ॥ ४ ॥
शबरिविहृतिलोलं श्यामलोदारचेलं
शतमखरिपुकालं सर्ववैकुण्ठबालम् ।
नतजनसुरजालं नाकिलोकानुकूलं
नवमयमणिमालं नौमि निःशेषमूलम् ॥ ५ ॥
शबरिगिरिकुटीरं शत्रुसङ्घातघोरं
शठगिरिशतधारं शष्पितेन्द्रारिशूरम् ।
हरिगिरीशकुमारं हारिकेयूरहारं
नवजलदशरीरं नौमि विश्वैकवीरम् ॥ ६ ॥
सरसिजदलनेत्रं सारसारातिवक्त्रं
सजलजलदगात्रं सान्द्रकारुण्यपात्रम् ।
सहतनयकलत्रं साम्बगोविन्दपुत्रं
सकलविबुधमित्रं सन्नमामः पवित्रम् ॥ ७ ॥
इति श्री शबरिगिरिवास स्तोत्रम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री शबरिगिरिवास स्तोत्रम्
READ
श्री शबरिगिरिवास स्तोत्रम्
on HinduNidhi Android App