श्री सायिनाथ पञ्चरत्न स्तोत्रम् PDF संस्कृत
Download PDF of Sri Sainatha Pancharatna Stotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्री सायिनाथ पञ्चरत्न स्तोत्रम् संस्कृत Lyrics
|| श्री सायिनाथ पञ्चरत्न स्तोत्रम् ||
प्रत्यक्षदैवं प्रतिबन्धनाशनं
सत्यस्वरूपं सकलार्तिनाशनम् ।
सौख्यप्रदं शान्तमनोज्ञरूपं
सायिनाथं सद्गुरुं चरणं नमामि ॥ १ ॥
भक्तावनं भक्तिमतां सुभाजनं
मुक्तिप्रदं भक्तमनोहरम् ।
विभुं ज्ञानसुशीलरूपिणं
सायिनाथं सद्गुरुं चरणं नमामि ॥ २ ॥
कारुण्यमूर्तिं करुणायताक्षं
करारिमभ्यर्थित दासवर्गम् ।
कामादि षड्वर्गजितं वरेण्यं
सायिनाथं सद्गुरुं चरणं नमामि ॥ ३ ॥
वेदान्तवेद्यं विमलान्तरङ्गं
ध्यानाधिरूढं वरसेव्यसद्गुरुम् ।
त्यागि महल्सापति सेविताग्रं
सायिनाथं सद्गुरुं चरणं नमामि ॥ ४ ॥
पत्रिग्रामे जातं वर षिरिडि ग्रामनिवासं
श्रीवेङ्कटेश महर्षि शिष्यम् ।
शङ्करं शुभकरं भक्तिमतां
सायिनाथं सद्गुरुं चरणं नमामि ॥ ५ ॥
इति श्री सायिनाथ पञ्चरत्न स्तोत्रम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री सायिनाथ पञ्चरत्न स्तोत्रम्
READ
श्री सायिनाथ पञ्चरत्न स्तोत्रम्
on HinduNidhi Android App