श्री शास्ता पञ्चाक्षर स्तोत्रम् PDF संस्कृत
Download PDF of Sri Sastha Panchakshara Stotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्री शास्ता पञ्चाक्षर स्तोत्रम् संस्कृत Lyrics
|| श्री शास्ता पञ्चाक्षर स्तोत्रम् ||
ओङ्कारमूर्तिमार्तिघ्नं देवं हरिहरात्मजम् ।
शबरीपीठनिलयं शास्तारं प्रणतोऽस्म्यहम् ॥ १ ॥
नक्षत्रनाथवदनं नाथं त्रिभुवनावनम् ।
नमिताशेषभुवनं शास्तारं प्रणतोऽस्म्यहम् ॥ २ ॥
मन्मथायुतसौन्दर्यं महाभूतनिषेवितम् ।
मृगयारसिकं शूरं शास्तारं प्रणतोऽस्म्यहम् ॥ ३ ॥
शिवप्रदायिनं भक्तदैवतं पाण्ड्यबालकम् ।
शार्दूलदुग्धहर्तारं शास्तारं प्रणतोऽस्म्यहम् ॥ ४ ॥
वारणेन्द्रसमारूढं विश्वत्राणपरायणम् ।
वेत्रोद्भासिकराम्भोजं शास्तारं प्रणतोऽस्म्यहम् ॥ ५ ॥
यक्षिण्यभिमतं पूर्णापुष्कलापरिसेवितम् ।
क्षिप्रप्रसादकं नित्यं शास्तारं प्रणतोऽस्म्यहम् ॥ ६ ॥
इति श्री शास्ता पञ्चाक्षर स्तोत्रम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री शास्ता पञ्चाक्षर स्तोत्रम्
READ
श्री शास्ता पञ्चाक्षर स्तोत्रम्
on HinduNidhi Android App