श्री शिव पञ्चाक्षरी मन्त्रः (न्यास सहितं) PDF संस्कृत
Download PDF of Sri Shiva Panchakshari Mantra Nyasa Sahitam Sanskrit
Misc ✦ Mantra (मंत्र संग्रह) ✦ संस्कृत
श्री शिव पञ्चाक्षरी मन्त्रः (न्यास सहितं) संस्कृत Lyrics
|| श्री शिव पञ्चाक्षरी मन्त्रः (न्यास सहितं) ||
श्री शिव पञ्चाक्षरी मन्त्रः (न्यास सहितं)
आचमनम्
ओं शम्भवे स्वाहा ।
ओं शङ्कराय स्वाहा ।
ओं शान्ताय स्वाहा ।
ओं शाश्वताय नमः ।
शिव, स्थाणो, भवानीपते, भूतेश, त्रिपुरान्तक, त्रिनयन, श्रीकण्ठ, कालान्तक, शर्व, उग्र, अभव, भर्ग, भीम, जगतां नाथ, अक्षय, श्रीनिधे, रुद्र, ईशान, महेश, महादेवाय नमः ॥
विनियोगः –
अस्य श्री शिव पञ्चाक्षरी मन्त्रस्य वामदेव ऋषि पङ्क्तिश्छन्द ईशानो देवता, ओं बीजं, नमः शक्तिः, शिवायेति कीलकं चतुर्विध पुरुषार्थ सिद्ध्यर्थे जपे विनियोगः ।
ऋष्यादिन्यासः
ओं वामदेवर्षये नमः शिरसि ।
पङ्क्ति छन्दसे नमः मुखे ।
ईशानदेवतायै नमः हृदये ।
ओं बीजाय नमः गुह्ये ।
नमः शक्तये नमः पादयोः ।
शिवायेति कीलकाय नमः नाभौ ।
विनियोगाय नमः सर्वाङ्गे ।
करन्यासः
ओं ओं अङ्गुष्ठाभ्यां नमः ।
ओं नं तर्जनीभ्यां नमः ।
ओं मं मध्यमाभ्यां नमः ।
ओं शिं अनामिकाभ्यां नमः ।
ओं वां कनिष्ठिकाभ्यां नमः ।
ओं यं करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः
ओं ओं हृदयाय नमः ।
ओं नं शिरसे स्वाहा ।
ओं मं शिखायै वषट् ।
ओं शिं कवचाय हुम् ।
ओं वां नेत्रत्रयाय वौषट् ।
ओं यं अस्त्राय फट् ।
पञ्चमूर्ति न्यासः
ओं नं तत्पुरुषाय नमः तर्जन्याम् ।
ओं मं अघोराय नमः मध्यमायाम् ।
ओं शिं सद्योजाताय नमः कनिष्ठिकायाम् ।
ओं वां वामदेवाय नमः अनामिकायाम् ।
ओं ईशानाय नमः इत्यङ्गुष्ठयोः ।
ओं नं तत्पुरुषाय नमः मुखे ।
ओं मं अघोराय नमः हृदये ।
ओं शिं सद्योजाताय नमः पादयोः ।
ओं वां वामदेवाय नमः गुह्ये ।
ओं यं ईशानाय नमः मूर्ध्नि ।
ध्यानम्
ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं
विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥
मन्त्रः
ओं नमः शिवाय ।
हृदयादिन्यासः
ओं ओं हृदयाय नमः ।
ओं नं शिरसे स्वाहा ।
ओं मं शिखायै वषट् ।
ओं शिं कवचाय हुम् ।
ओं वां नेत्रत्रयाय वौषट् ।
ओं यं अस्त्राय फट् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री शिव पञ्चाक्षरी मन्त्रः (न्यास सहितं)

READ
श्री शिव पञ्चाक्षरी मन्त्रः (न्यास सहितं)
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
