श्री श्यामला कवचम् PDF संस्कृत
Download PDF of Sri Shyamala Kavacham Sanskrit
Misc ✦ Kavach (कवच संग्रह) ✦ संस्कृत
श्री श्यामला कवचम् संस्कृत Lyrics
|| श्री श्यामला कवचम् ||
श्री देव्युवाच ।
साधुसाधु महादेव कथयस्व महेश्वर ।
येन सम्पद्विधानेन साधकानां जयप्रदम् ॥ १ ॥
विना जपं विना होमं विना मन्त्रं विना नुतिम् ।
यस्य स्मरणमात्रेण साधको धरणीपतिः ॥ २ ॥
श्री भैरव उवाच ।
शृणु देवि प्रवक्ष्यामि मातङ्गीकवचं परम् ।
गोपनीयं प्रयत्नेन मौनेन जपमाचरेत् ॥ ३ ॥
मातङ्गीकवचं दिव्यं सर्वरक्षाकरं नृणाम् ।
कवित्वं च महत्वं च गजावाजिसुतादयः ॥ ४ ॥
शुभदं सुखदं नित्यमणिमादिप्रदायकम् ।
ब्रह्मविष्णुमहेशानां तेषामाद्या महेश्वरी ॥ ५ ॥
श्लोकार्धं श्लोकमेकं वा यस्तु सम्यक्पठेन्नरः ।
तस्य हस्ते सदैवास्ते राज्यलक्ष्मीर्न संशयः ॥ ६ ॥
साधकः श्यामलां ध्यायन् कमलासनसंस्थितः ।
योनिमुद्रां करे बध्वा शक्तिध्यानपरायणः ॥ ७ ॥
कवचं तु पठेद्यस्तु तस्य स्युः सर्वसम्पदः ।
पुत्रपौत्रादिसम्पत्तिरन्ते मुक्तिश्च शाश्वती ॥ ८ ॥
ब्रह्मरन्ध्रं सदा पायाच्छ्यामला मन्त्रनायिका ।
ललाटं रक्षतां नित्यं कदम्बेशी सदा मम ॥ ९ ॥
भ्रुवौ पायच्च सुमुखी अव्यान्नेत्रे च वैणिकी ।
वीणावती नासिकां च मुखं रक्षतु मन्त्रिणी ॥ १० ॥
सङ्गीतयोगिनी दन्तान् अव्यादोष्ठौ शुकप्रिया ।
चुबुकं पातु मे श्यामा जिह्वां पायान्महेश्वरी ॥ ११ ॥
कर्णौ देवी स्तनौ काली पातु कात्यायनी मुखम् ।
नीपप्रिया सदा रक्षेदुदरं मम सर्वदा ॥ १२ ॥
प्रियङ्करी प्रियव्यापी नाभिं रक्षतु मुद्रिणी ।
स्कन्धौ रक्षतु शर्वाणी भुजौ मे पातु मोहिनी ॥ १३ ॥
कटिं पातु प्रधानेशी पातु पादौ च पुष्पिणी ।
आपादमस्तकं श्यामा पूर्वे रक्षतु पुष्टिदा ॥ १४ ॥
उत्तरे त्रिपुरा रक्षेद्विद्या रक्षतु पश्चिमे ।
विजया दक्षिणे पातु मेधा रक्षतु चानले ॥ १५ ॥
प्राज्ञा रक्षतु नैरृत्यां वायव्यां शुभलक्षणा ।
ईशान्यां रक्षताद्देवी मातङ्गी शुभकारिणी ॥ १६ ॥
ऊर्ध्वं पातु सदा देवी देवानां हितकारिणी ।
पातले पातु मां नित्या वासुकी विश्वरूपिणी ॥ १७ ॥
अकारादिक्षकारान्तमातृकारूपधारिणी ।
आपादमस्तकं पायादष्टमातृस्वरूपिणी ॥ १८ ॥
अवर्गसम्भवा ब्राह्मी मुखं रक्षतु सर्वदा ।
कवर्गस्था तु माहेशी पातु दक्षभुजं तथा ॥ १९ ॥
चवर्गस्था तु कौमारी पायान्मे वामकं भुजम् ।
दक्षपादं समाश्रित्य टवर्गं पातु वैष्णवी ॥ २० ॥
तवर्गजन्मा वाराही पायान्मे वामपादकम् ।
तथा पवर्गजेन्द्राणी पार्श्वादीन् पातु सर्वदा ॥ २१ ॥
यवर्गस्था तु चामुण्डा हृद्दोर्मूले च मे तथा ।
हृदादिपाणिपादान्तजठराननसञ्ज्ञिकम् ॥ २२ ॥
चण्डिका च शवर्गस्था रक्षतां मम सर्वदा ।
विशुद्धं कण्ठमूलं तु रक्षतात्षोडशस्वराः ॥ २३ ॥
ककारादि ठकारान्त द्वादशार्णं हृदम्बुजम् ।
मणिपूरं डाधिफान्त दशवर्णस्वरूपिणी ॥ २४ ॥
स्वाधिष्ठानं तु षट्पत्रं बादिलान्तस्वरूपिणी ।
वादिसान्तस्वरूपाऽव्यान्मूलाधारं चतुर्दलम् ॥ २५ ॥
हङ्क्षार्णमाज्ञा द्विदलं भ्रुवोर्मध्यं सदावतु ।
अकारादिक्षकारान्तमातृकाबीजरूपिणि ॥ २६ ॥
मातङ्गी मां सदा रक्षेदापादतलमस्तकम् ।
इमं मन्त्रं समुद्धार्य धारयेद्वामके भुजे ॥ २७ ॥
कण्ठे वा धारयेद्यस्तु स वै देवो महेश्वरः ।
तं दृष्ट्वा देवताः सर्वाः प्रणमन्ति सुदूरतः ॥ २८ ॥
तस्य तेजः प्रभावेन सम्यग्गन्तुं न शक्यते ।
इन्द्रादीनां लभेत्सत्यं भूपतिर्वशगो भवेत् ॥ २९ ॥
वाक्सिद्धिर्जायते तस्य अणिमाद्यष्टसिद्धयः ।
अज्ञात्वा कवचं देव्याः श्यामलां यो जपेन्नरः ॥ ३० ॥
तस्यावश्यं तु सा देवी योगिनी भक्षयेत्तनुम् ।
इह लोके सदा दुःखं अतो दुःखी भविष्यति ॥ ३१ ॥
जन्मकोटि सदा मूको मन्त्रसिद्धिर्न विद्यते ।
गुरुपादौ नमस्कृत्य यथामन्त्रं भवेत्सुधीः ॥ ३२ ॥
तथा तु कवचं देव्याः सफलं गुरुसेवया ।
इह लोके नृपो भूत्वा पठेन्मुक्तो भविष्यति ॥ ३३ ॥
बोधयेत्परशिष्याय दुर्जनाय सुरेश्वरि ।
निन्दकाय कुशीलाय शक्तिहिंसापराय च ॥ ३४ ॥
यो ददाति न सिध्येत मातङ्गीकवचं शुभम् ।
न देयं सर्वदा भद्रे प्राणैः कण्ठगतैरपि ॥ ३५ ॥
गोप्याद्गोप्यतरं गोप्यं गुह्याद्गुह्यतमं महत् ।
दद्याद्गुरुः सुशिष्याय गुरुभक्तिपराय च ।
शिवे नष्टे गुरुस्त्राता गुरौ नष्टे न कश्चन ॥ ३६ ॥
इति श्रीशक्तितन्त्रमहार्णवे श्री श्यामला कवचम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री श्यामला कवचम्

READ
श्री श्यामला कवचम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
