
श्री श्यामला पञ्चाशत्स्वर वर्णमालिका स्तोत्रम् PDF संस्कृत
Download PDF of Sri Shyamala Panchasathsvara Varna Maalikaa Stotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्री श्यामला पञ्चाशत्स्वर वर्णमालिका स्तोत्रम् संस्कृत Lyrics
|| श्री श्यामला पञ्चाशत्स्वर वर्णमालिका स्तोत्रम् ||
वन्देऽहं वनजेक्षणां वसुमतीं वाग्देवि तां वैष्णवीं
शब्दब्रह्ममयीं शशाङ्कवदनां शातोदरीं शाङ्करीम् ।
षड्बीजां सशिवां समञ्चितपदामाधारचक्रेस्थितां
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ १ ॥
बालां भास्करभासमप्रभयुतां भीमेश्वरीं भारतीं
माणिक्याञ्चितहारिणीमभयदां योनिस्थितेयं पदाम् ।
ह्रां ह्रां ह्रीं कमयीं रजस्तमहरीं लम्बीजमोङ्कारिणीं
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ २ ॥
डं ढं णं त थमक्षरीं तव कलान्ताद्याकृतीतुर्यगां
दं धं नं नवकोटिमूर्तिसहितां नादं सबिन्दूकलाम् ।
पं फं मन्त्रफलप्रदां प्रतिपदां नाभौ सचक्रेस्थितां
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ ३ ॥
कं खं गं घ मयीं गजास्यजननीं गानप्रियामागमीं
चं छं जं झं झण क्वणि घणु घिणू झङ्कारपादां रमाम् ।
ञं टं ठं हृदये स्थितां किणिकिणी नादौ करौ कङ्कणां
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ ४ ॥
अं आं इं इमयीं इहैव सुखदामीकार उ ऊपमां
ऋं ॠं लुं सहवर्णपीठनिलये लूङ्कार एं ऐं सदा ।
ओं औं अन्नमये अः स्तवनुतामानन्दमानन्दिनीं
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ ५ ॥
हं क्षं ब्रह्ममयीं द्विपत्रकमलां भ्रूमध्यपीठेस्थितां
इडापिङ्गलमध्यदेशगमनामिष्टार्थसन्दायिनीम् ।
आरोहप्रतिरोहयन्त्रभरितां साक्षात्सुषुम्ना कलां
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ ६ ॥
ब्रह्मेशादि समस्त मौनिऋषिभिर्देवैः सदा ध्यायिनीं
ब्रह्मस्थाननिवेशिनीं तव कलां तारं सहस्रांशके ।
खव्यं खव्यमयीं खगेशविनुतां खं रूपिमोङ्कारिणीं
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ ७ ॥
चक्राण्ये सतु सप्तमन्तरगते वर्णात्मिके तां श्रियं
नादं बिन्दुकलामयींश्चरहिते निःशब्द निर्व्यापके ।
निर्व्यक्तां च निरञ्जनीं निरवयां श्रीयन्त्रमात्रां परां
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ ८ ॥
बालामालमनोहरां प्रतिदिनं वाञ्छन्ति वाच्यं पठेत्
वेदे शास्त्र विवादकालसमये स्थित्वा सभामध्यमे ।
पञ्चाशत्स्वरवर्णमालिकमियां जिह्वाग्र संस्था पठे-
-द्धर्मार्थाखिलकामविक्षितकृपाः सिध्यन्ति मोक्षं तथा ॥ ९ ॥
इति श्री श्यामला पञ्चाशत्स्वरवर्णमालिका स्तोत्रम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री श्यामला पञ्चाशत्स्वर वर्णमालिका स्तोत्रम्

READ
श्री श्यामला पञ्चाशत्स्वर वर्णमालिका स्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
