श्री सूर्य स्तोत्रम् – १ (शिव प्रोक्तम्) PDF संस्कृत
Download PDF of Sri Surya Stotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्री सूर्य स्तोत्रम् – १ (शिव प्रोक्तम्) संस्कृत Lyrics
|| श्री सूर्य स्तोत्रम् – १ (शिव प्रोक्तम्) ||
ध्यानम् –
ध्यायेत्सूर्यमनन्तकोटिकिरणं तेजोमयं भास्करं
भक्तानामभयप्रदं दिनकरं ज्योतिर्मयं शङ्करम् ।
आदित्यं जगदीशमच्युतमजं त्रैलोक्यचूडामणिं
भक्ताभीष्टवरप्रदं दिनमणिं मार्ताण्डमाद्यं शुभम् ॥ १ ॥
कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः ।
जन्ममृत्युजराव्याधिसंसारभयनाशनः ॥ २ ॥
ब्रह्मस्वरूप उदये मध्याह्ने तु महेश्वरः ।
अस्तकाले स्वयं विष्णुस्त्रयीमूर्तिर्दिवाकरः ॥ ३ ॥
एकचक्ररथो यस्य दिव्यः कनकभूषितः ।
सोऽयं भवतु नः प्रीतः पद्महस्तो दिवाकरः ॥ ४ ॥
पद्महस्तः परञ्ज्योतिः परेशाय नमो नमः ।
अण्डयोनिर्महासाक्षी आदित्याय नमो नमः ॥ ५ ॥
कमलासन देवेश भानुमूर्ते नमो नमः ।
धर्ममूर्तिर्दयामूर्तिस्तत्त्वमूर्तिर्नमो नमः ॥ ६ ॥
सकलेशाय सूर्याय क्षान्तेशाय नमो नमः । [छायेशाय]
क्षयापस्मारगुल्मादिदुर्दोषव्याधिनाशनम् ॥ ७ ॥
सर्वज्वरहरं चैव कुक्षिरोगनिवारणम् ।
एतत् स्तोत्रं शिव प्रोक्तं सर्वसिद्धिकरं परम् ।
सर्वसम्पत्करं चैव सर्वाभीष्टप्रदायकम् ॥ ८ ॥
इति श्री सूर्य स्तोत्रम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री सूर्य स्तोत्रम् – १ (शिव प्रोक्तम्)
READ
श्री सूर्य स्तोत्रम् – १ (शिव प्रोक्तम्)
on HinduNidhi Android App