
श्री सूर्यार्या स्तोत्रम् (याज्ञवल्क्य कृतम्) PDF संस्कृत
Download PDF of Sri Suryarya Stotram Yajnavalkya Krutham Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्री सूर्यार्या स्तोत्रम् (याज्ञवल्क्य कृतम्) संस्कृत Lyrics
|| श्री सूर्यार्या स्तोत्रम् (याज्ञवल्क्य कृतम्) ||
शुकतुण्डच्छविसवितुश्चण्डरुचेः पुण्डरीकवनबन्धोः ।
मण्डलमुदितं वन्दे कुण्डलमाखण्डलाशायाः ॥ १ ॥
यस्योदयास्तसमये सुरमुकुटनिघृष्टचरणकमलोऽपि ।
कुरुतेञ्जलिं त्रिनेत्रः स जयति धाम्नां निधिः सूर्यः ॥ २ ॥
उदयाचलतिलकाय प्रणतोऽस्मि विवस्वते ग्रहेशाय ।
अम्बरचूडामणये दिग्वनिताकर्णपूराय ॥ ३ ॥
जयति जनानन्दकरः करनिकरनिरस्ततिमिरसङ्घातः ।
लोकालोकालोकः कमलारुणमण्डलः सूर्यः ॥ ४ ॥
प्रतिबोधितकमलवनः कृतघटनश्चक्रवाकमिथुनानाम् ।
दर्शितसमस्तभुवनः परहितनिरतो रविः सदा जयति ॥ ५ ॥
अपनयतु सकलकलिकृतमलपटलं सप्रतप्तकनकाभः ।
अरविन्दवृन्दविघटनपटुतरकिरणोत्करः सविता ॥ ६ ॥
उदयाद्रिचारुचामर हरितहयखुरपरिहतरेणुराग ।
हरितहय हरितपरिकर गगनाङ्गणदीपक नमस्तेऽस्तु ॥ ७ ॥
उदितवति त्वयि विलसति मुकुलीयति समस्तमस्तमितबिम्बे ।
न ह्यन्यस्मिन् दिनकर सकलं कमलायते भुवनम् ॥ ८ ॥
जयति रविरुदयसमये बालातपः कनकसन्निभो यस्य ।
कुसुमाञ्जलिरिव जलधौ तरन्ति रथसप्तयः सप्त ॥ ९ ॥
आर्याः साम्बपुरे सप्त आकाशात्पतिता भुवि ।
यस्य कण्ठे गृहे वापि न स लक्ष्म्या वियुज्यते ॥ १० ॥
आर्याः सप्त सदा यस्तु सप्तम्यां सप्तधा जपेत् ।
तस्य गेहं च देहं च पद्मा सत्यं न मुञ्चति ॥ ११ ॥
निधिरेष दरिद्राणां रोगिणां परमौषधम् ।
सिद्धिः सकलकार्याणां गाथेयं संस्मृता रवेः ॥ १२ ॥
इति श्रीयाज्ञवल्क्य विरचितं श्री सूर्यार्या स्तोत्रम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री सूर्यार्या स्तोत्रम् (याज्ञवल्क्य कृतम्)

READ
श्री सूर्यार्या स्तोत्रम् (याज्ञवल्क्य कृतम्)
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
