श्री वराहाष्टोत्तरशतनाम स्तोत्रम् PDF संस्कृत
Download PDF of Sri Varaha Ashtottara Shatanama Stotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्री वराहाष्टोत्तरशतनाम स्तोत्रम् संस्कृत Lyrics
श्री वराहाष्टोत्तरशतनाम स्तोत्रम् भगवान विष्णु के वराह अवतार को समर्पित एक अत्यंत प्रभावशाली स्तोत्र है, जिसमें उनके 108 दिव्य नामों का वर्णन किया गया है। इस स्तोत्र का पाठ करने से भक्तों को नकारात्मक शक्तियों से मुक्ति, भूमि संबंधी कष्टों से राहत और आध्यात्मिक उन्नति प्राप्त होती है।
“श्री वराहाष्टोत्तरशतनाम स्तोत्रम् pdf” डाउनलोड कर इसका नियमित पाठ करें, जिससे जीवन में सुख, शांति और समृद्धि का वास होता है। यह स्तोत्र वराह जयंती, विशेष पर्वों अथवा दैनिक पूजा में भी पढ़ा जा सकता है। इसका पाठ शुद्ध भाव से करने पर भगवान वराहदेव की कृपा शीघ्र प्राप्त होती है।
|| श्री वराहाष्टोत्तरशतनाम स्तोत्रम् PDF ||
ध्यानम् ।
श्वेतं सुदर्शनदराङ्कितबाहुयुग्मं
दंष्ट्राकरालवदनं धरया समेतम् ।
ब्रह्मादिभिः सुरगणैः परिसेव्यमानं
ध्यायेद्वराहवपुषं निगमैकवेद्यम् ॥
स्तोत्रम्।
श्रीवराहो महीनाथः पूर्णानन्दो जगत्पतिः ।
निर्गुणो निष्कलोऽनन्तो दण्डकान्तकृदव्ययः ॥
हिरण्याक्षान्तकृद्देवः पूर्णषाड्गुण्यविग्रहः ।
लयोदधिविहारी च सर्वप्राणिहितेरतः ॥
अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः ।
वेदान्तवेद्यो वेदी च वेदगर्भः सनातनः ॥
सहस्राक्षः पुण्यगन्धः कल्पकृत् क्षितिभृद्धरिः ।
पद्मनाभः सुराध्यक्षो हेमाङ्गो दक्षिणामुखः ॥
महाकोलो महाबाहुः सर्वदेवनमस्कृतः ।
हृषीकेशः प्रसन्नात्मा सर्वभक्तभयापहः ॥
यज्ञभृद्यज्ञकृत्साक्षी यज्ञाङ्गो यज्ञवाहनः ।
हव्यभुक् हव्यदेवश्च सदाऽव्यक्तः कृपाकरः ॥
देवभूमिगुरुः कान्तो धर्मगुह्यो वृषाकपिः ।
स्रवत्तुण्डो वक्रदंष्ट्रो नीलकेशो महाबलः ॥
पूतात्मा वेदनेता च वेदहर्तृशिरोहरः ।
वेदान्तविद्वेदगुह्यः सर्ववेदप्रवर्तकः ॥
गभीराक्षस्त्रिधामा च गभीरात्माऽमरेश्वरः ।
आनन्दवनगो दिव्यो ब्रह्मनासासमुद्भवः ॥
सिन्धुतीरनिवासी च क्षेमकृत्सात्त्वतां पतिः ।
इन्द्रत्राता जगत्त्राता चेन्द्रदोर्दण्डगर्वहा ॥
भक्तवश्यो सदोद्युक्तो निजानन्दो रमापतिः ।
श्रुतिप्रियः शुभाङ्गश्च पुण्यश्रवणकीर्तनः ॥
सत्यकृत्सत्यसङ्कल्पः सत्यवाक्सत्यविक्रमः ।
सत्येनिगूढः सत्यात्मा कालातीतो गुणाधिकः ॥
परंज्योतिः परंधाम परमः पुरुषः परः ।
कल्याणकृत्कविः कर्ता कर्मसाक्षी जितेन्द्रियः ॥
कर्मकृत्कर्मकाण्डस्यसम्प्रदायप्रवर्तकः ।
सर्वान्तकः सर्वगश्च सर्वदः सर्वभक्षकः ॥
सर्वलोकपतिः श्रीमान् श्रीमुष्णेशः शुभेक्षणः ।
सर्वदेवप्रियः साक्षीत्येतन्नामाष्टकं शतम् ॥
सर्ववेदाधिकं पुण्यं वराहस्य महात्मनः ।
सततं प्रातरुत्थाय सम्यगाचम्य वारिणा ॥
जितासनो जितक्रोधः पश्चान्मन्त्रमुदीरयेत् ।
ब्राह्मणो ब्रह्मविद्यायां च क्षत्रियो राज्यमाप्नुयात् ॥
वैश्यो धनसमृद्धः स्यात् शूद्रः सुखमवाप्नुयात् ।
सकामो लभते कामान्निष्कामो मोक्षमाप्नुयात् ॥
इति श्रीवराहपुराणे धरणीवराहसंवादे श्रीभूवराहाष्टोत्तरस्तवः ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री वराहाष्टोत्तरशतनाम स्तोत्रम्

READ
श्री वराहाष्टोत्तरशतनाम स्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
