श्री वासवीकन्यकाष्टकम् PDF संस्कृत
Download PDF of Sri Vasavi Kanyaka Ashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्री वासवीकन्यकाष्टकम् संस्कृत Lyrics
|| श्री वासवीकन्यकाष्टकम् ||
नमो देव्यै सुभद्रायै कन्यकायै नमो नमः ।
शुभं कुरु महादेवि वासव्यैच नमो नमः ॥ १ ॥
जयायै चन्द्ररूपायै चण्डिकायै नमो नमः ।
शान्तिमावहनोदेवि वासव्यै ते नमो नमः ॥ २ ॥
नन्दायैते नमस्तेस्तु गौर्यै देव्यै नमो नमः ।
पाहिनः पुत्रदाराम्श्च वासव्यै ते नमो नमः ॥ ३ ॥
अपर्णायै नमस्तेस्तु कौसुंभ्यै ते नमो नमः ।
नमः कमलहस्तायै वासव्यै ते नमो नमः ॥ ४ ॥
चतुर्भुजायै शर्वाण्यै शुकपाण्यै नमो नमः ।
सुमुखायै नमस्तेस्तु वासव्यै ते नमो नमः ॥ ५ ॥
कमलायै नमस्तेस्तु विष्णुनेत्र कुलालये ।
मृडान्यैते नमस्तेस्तु वासव्यै ते नमो नमः ॥ ६ ॥
नमश्शीतलपादायै नमस्ते परमेश्वरी ।
श्रियं नोदेहि मातस्त्वं वासव्यै ते नमो नमः ॥ ७ ॥
त्वत्पादपद्मविन्यासं चन्द्रमण्डल शीतलं ।
गृहेषु सर्वदाऽस्माकं देहि श्री परमेश्वरि ॥ ८ ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री वासवीकन्यकाष्टकम्
READ
श्री वासवीकन्यकाष्टकम्
on HinduNidhi Android App