श्री विखनस अष्टकम् PDF संस्कृत
Download PDF of Sri Vikhanasa Ashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्री विखनस अष्टकम् संस्कृत Lyrics
|| श्री विखनस अष्टकम् ||
नारायणाङ्घ्रि जलजद्वय सक्तचित्तं
श्रुत्यर्थसम्पदनुकम्पित चारुकीर्तिम् ।
वाल्मीकिमुख्यमुनिभिः कृतवन्दनाढ्यं
शान्तं सदा विखनसं मुनिमाश्रयामि ॥ १ ॥
लक्ष्मीपतेः प्रियसुतं ललितप्रभावं
मन्त्रार्थतत्त्वरसिकं करुणाम्बुराशिम् ।
भक्ताऽनुकूलहृदयं भपबन्धनाशं
शान्तं सदा विखनसं मुनिमाश्रयामि ॥ २ ॥
श्रीवासुदेवचरणाम्बुजभृङ्गराजं
कामादिदोषदमनं परविष्णुरूपम् ।
वैखानसार्चितपदं परमं पवित्रं
शान्तं सदा विखनसं मुनिमाश्रयामि ॥ ३ ॥
भृग्वादिशिष्यमुनिसेवितपादपद्मं
योगीश्वरेश्वरगुरुं परमं दयालुम् ।
पापापहं भगदर्पितचित्तवृत्तिं
शान्तं सदा विखनसं मुनिमाश्रयामि ॥ ४ ॥
कण्ठावलग्नतुलसीनलिनाक्षमाला
कान्तिप्रकाशविलसद्घनपीनवत्सम् ।
स्मेराननाम्बुज लसद्धवलोर्ध्वपुण्ड्रं
शान्तं सदा विखनसं मुनिमाश्रयामि ॥ ५ ॥
वेदान्तवेद्यमखिलार्थविदां वरिष्ठं
श्रीकान्तपादसरसीरुहलग्नचित्तम् ।
केयूरहारमणिराजविभूषिताङ्गं
शान्तं सदा विखनसं मुनिमाश्रयामि ॥ ६ ॥
काषायवस्त्रकमनीयजटाकलापं
दण्डत्रयोज्ज्वलकरं विमलोपवीतम् ।
लोकावलोकनकरं विगलद्विचारं
शान्तं सदा विखनसं मुनिमाश्रयामि ॥ ७ ॥
स्वाबद्धसूत्रगतविष्णुबलिप्रमेया-
-दागर्भवैष्णवमुपादिशदादराद्यः ।
तत्तादृशं बुधवशं विनिपातिताशं
शान्तं सदा विखनसं मुनिमाश्रयामि ॥ ८ ॥
एवं परं विखनसाष्टकमात्मना ये
शृण्वन्ति चात्मनि पठन्ति महादरेण
तान्मुक्तदोष निचयानपवर्गयोग्यान्
सम्प्रीत आशु तनुयात्कमला सुपुत्रः ॥ ९ ॥
इति श्री विखनसाष्टकम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री विखनस अष्टकम्

READ
श्री विखनस अष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
