श्री विष्ण्वष्टकम् PDF संस्कृत
Download PDF of Sri Vishnu Ashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्री विष्ण्वष्टकम् संस्कृत Lyrics
|| श्री विष्ण्वष्टकम् (Vishnu Ashtakam PDF) ||
विष्णुं विशालारुणपद्मनेत्रं
विभान्तमीशाम्बुजयोनिपूजितम् ।
सनातनं सन्मतिशोधितं परं
पुमांसमाद्यं सततं प्रपद्ये ॥ १ ॥
कल्याणदं कामफलप्रदायकं
कारुण्यरूपं कलिकल्मषघ्नम् ।
कलानिधिं कामतनूजमाद्यं
नमामि लक्ष्मीशमहं महान्तम् ॥ २ ॥
पीताम्बरं भृङ्गनिभं पितामह-
-प्रमुख्यवन्द्यं जगदादिदेवम् ।
किरीटकेयूरमुखैः प्रशोभितं
श्रीकेशवं सन्ततमानतोऽस्मि ॥ ३ ॥
भुजङ्गतल्पं भुवनैकनाथं
पुनः पुनः स्वीकृतकायमाद्यम् ।
पुरन्दराद्यैरपि वन्दितं सदा
मुकुन्दमत्यन्तमनोहरं भजे ॥ ४ ॥
क्षीराम्बुराशेरभितः स्फुरन्तं
शयानमाद्यन्तविहीनमव्ययम् ।
सत्सेवितं सारसनाभमुच्चैः
विघोषितं केशिनिषूदनं भजे ॥ ५ ॥
भक्तार्तिहन्तारमहर्निशं तं
मुनीन्द्रपुष्पाञ्जलिपादपङ्कजम् ।
भवघ्नमाधारमहाश्रयं परं
परापरं पङ्कजलोचनं भजे ॥ ६ ॥
नारायणं दानवकाननानलं
नतप्रियं नामविहीनमव्ययम् ।
हर्तुं भुवो भारमनन्तविग्रहं
स्वस्वीकृतक्ष्मावरमीडितोऽस्मि ॥ ७ ॥
नमोऽस्तु ते नाथ वरप्रदायिन्
नमोऽस्तु ते केशव किङ्करोऽस्मि ।
नमोऽस्तु ते नारदपूजिताङ्घ्रे
नमो नमस्त्वच्चरणं प्रपद्ये ॥ ८ ॥
विष्ण्वष्टकमिदं पुण्यं यः पठेद्भक्तितो नरः ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥
इति श्रीनारायणगुरुविरचितं श्रीविष्ण्वष्टकम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री विष्ण्वष्टकम्

READ
श्री विष्ण्वष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
