श्री विष्णु कवच स्तोत्रम् PDF संस्कृत
Download PDF of Sri Vishnu Kavacha Stotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्री विष्णु कवच स्तोत्रम् संस्कृत Lyrics
|| श्री विष्णु कवच स्तोत्रम् ||
अस्य श्रीविष्णुकवचस्तोत्रमहामन्त्रस्य, ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, श्रीमन्नारायणो देवता, श्रीमन्नारायणप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ओं केशवाय अङ्गुष्ठाभ्यां नमः ।
ओं नारायणाय तर्जनीभ्यां नमः ।
ओं माधवाय मध्यमाभ्यां नमः ।
ओं गोविन्दाय अनामिकाभ्यां नमः ।
ओं विष्णवे कनिष्ठिकाभ्यां नमः ।
ओं मधुसूदनाय करतलकरपृष्ठाभ्यां नमः ॥
ओं त्रिविक्रमाय हृदयाय नमः ।
ओं वामनाय शिरसे स्वाहा ।
ओं श्रीधराय शिखायै वषट् ।
ओं हृषीकेशाय कवचाय हुम् ।
ओं पद्मनाभाय नेत्रत्रयाय वौषट् ।
ओं दामोदराय अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ॥
ध्यानम् ।
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाकारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिहृद्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
ओं पूर्वतो मां हरिः पातु पश्चाच्चक्री च दक्षिणे ।
कृष्ण उत्तरतः पातु श्रीशो विष्णुश्च सर्वतः ॥
ऊर्ध्वमानन्दकृत्पातु अधस्ताच्छार्ङ्गभृत्सदा ।
पादौ पातु सरोजाङ्घ्रिः जङ्घे पातु जनार्दनः ॥
जानुनी मे जगन्नाथः ऊरू पातु त्रिविक्रमः ।
गुह्यं पातु हृषीकेशः पृष्ठं पातु ममाव्ययः ॥
पातु नाभिं ममानन्तः कुक्षिं राक्षसमर्दनः ।
दामोदरो मे हृदयं वक्षः पातु नृकेसरी ॥
करौ मे कालियारातिः भुजौ भक्तार्तिभञ्जनः ।
कण्ठं कालाम्बुदश्यामः स्कन्धौ मे कंसमर्दनः ॥
नारायणोऽव्यान्नासां मे कर्णौ केशिप्रभञ्जनः ।
कपोले पातु वैकुण्ठो जिह्वां पातु दयानिधिः ॥
आस्यं दशास्यहन्ताऽव्यात् नेत्रे मे हरिलोचनः । [** पद्मलोचनः **]
भ्रुवौ मे पातु भूमीशो ललाटं मे सदाऽच्युतः ॥
मुखं मे पातु गोविन्दः शिरो गरुडवाहनः ।
मां शेषशायी सर्वेभ्यो व्याधिभ्यो भक्तवत्सलः ॥
पिशाचाग्निज्वरेभ्यो मामापद्भ्योऽवतु वामनः ।
सर्वेभ्यो दुरितेभ्यश्च पातु मां पुरुषोत्तमः ॥
इदं श्रीविष्णुकवचं सर्वमङ्गलदायकम् ।
सर्वरोगप्रशमनं सर्वशत्रुविनाशनम् ॥
इति श्री विष्णु कवचम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री विष्णु कवच स्तोत्रम्

READ
श्री विष्णु कवच स्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
