श्री आदित्य स्तोत्रम् – २ (भविष्यपुराणे)
श्री आदित्य स्तोत्रम् – २ (भविष्यपुराणे) नवग्रहाणां सर्वेषां सूर्यादीनां पृथक् पृथक् । पीडा च दुस्सहा राजन् जायते सततं नृणाम् ॥ १ ॥ पीडानाशाय राजेन्द्र नामानि शृणु भास्वतः । सूर्यादीनां च सर्वेषां पीडा नश्यति शृण्वतः ॥ २ ॥ आदित्यः सविता सूर्यः पूषार्कः शीघ्रगो रविः । भगस्त्वष्टाऽर्यमा हंसो हेलिस्तेजोनिधिर्हरिः ॥ ३ ॥ दिननाथो दिनकरः सप्तसप्तिः प्रभाकरः ।…