सप्त सप्ति सप्तक स्तोत्र
|| सप्त सप्ति सप्तक स्तोत्र || ध्वान्तदन्तिकेसरी हिरण्यकान्तिभासुरः कोटिरश्मिभूषितस्तमोहरोऽमितद्युतिः। वासरेश्वरो दिवाकरः प्रभाकरः खगो भास्करः सदैव पातु मां विभावसू रविः। यक्षसिद्धकिन्नरादिदेवयोनिसेवितं तापसैर्मुनीश्वरैश्च नित्यमेव वन्दितम्। तप्तकाञ्चनाभमर्कमादिदैवतं रविं विश्वचक्षुषं नमामि सादरं महाद्युतिम्। भानुना वसुन्धरा पुरैव निमिता तथा भास्करेण तेजसा सदैव पालिता मही। भूर्विलीनतां प्रयाति काश्यपेयवर्चसा तं रवि भजाम्यहं सदैव भक्तिचेतसा। अंशुमालिने तथा च सप्त-सप्तये नमो बुद्धिदायकाय शक्तिदायकाय ते…