विद्याप्रद सरस्वती स्तोत्र
|| विद्याप्रद सरस्वती स्तोत्र || विश्वेश्वरि महादेवि वेदज्ञे विप्रपूजिते। विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति। सिद्धिप्रदात्रि सिद्धेशि विश्वे विश्वविभावनि। विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति। वेदत्रयात्मिके देवि वेदवेदान्तवर्णिते। विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति। वेददेवरते वन्द्ये विश्वामित्रविधिप्रिये। विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति। वल्लभे वल्लकीहस्ते विशिष्टे वेदनायिके। विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति। शारदे…