Download HinduNidhi App
Misc

श्री सुब्रह्मण्य करावलम्ब अष्टकम

Subrahmanya Karavalamba Ashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

॥श्री सुब्रह्मण्य करावलम्ब अष्टकम॥

हॆ स्वामिनाथ करुणाकर दीनबन्धॊ
श्रीपार्वतीशमुखपङ्कजपद्मबन्धॊ ।
श्रीशादिदॆवगणपूजितपादपद्म वल्लीश
नाथ मम दॆहि करावलम्बम् ॥

दॆवादिदॆवसुत दॆवगणाधिनाथ
दॆवॆन्द्रवन्द्यमृदुपङ्कजमञ्जुपाद ।
दॆवर्षिनारदमुनीन्द्रसुगीतकीर्तॆ वल्लीश
नाथ मम दॆहि करावलम्बम् ॥

नित्यान्नदाननिरताखिलरॊगहारिन्
भाग्यप्रदानपरिपूरितभक्तकाम ।
श्रुत्यागमप्रणववाच्यनिजस्वरूप वल्लीश
नाथ मम दॆहि करावलम्बम् ॥

क्रौञ्चासुरॆन्द्रपरिखण्डनशक्तिशूल
चापादिशस्त्रपरिमण्डितदिव्यपाणॆ ।
श्रीकुण्डलीशधृततुण्डशिखीन्द्रवाह वल्लीश
नाथ मम दॆहि करावलम्बम् ॥

दॆवादिदॆवरथमण्डलमध्यमॆत्य
दॆवॆन्द्रपीठनगरं धृतचापहस्त ।
शूरं निहत्य सुरकॊटिभिरीड्यमान
वल्लीश नाथ मम दॆहि करावलम्बम् ॥

हीरादिरत्नवरयुक्तकिरीटहार
कॆयूरकुण्डललसत् कवचाभिराम ।
हॆ वीर तारकजयामरबृन्दवन्द्य वल्लीश
नाथ मम दॆहि करावलम्बम् ॥

पञ्चाक्षरादिमुनिमन्त्रितगांगतॊयैः पञ्चामृतैः
प्रमुदितॆन्द्रमुखैर्मुनीन्द्रैः ।
पट्टाभिषिक्त मघवत्तनयासनाथ वल्लीश
नाथ मम दॆहि करावलम्बम् ॥

श्रीकार्तिकॆयकरुणामृतपूर्णदृष्ट्या
कामादिरॊगकलुषीकृतदुष्टचित्तं ।
सिक्त्वा तु मामव कलानिधिकॊटिकान्त
वल्लीश नाथ मम दॆहि करावलम्बम् ॥

सुब्रह्मण्याष्टकं पुण्यं ये पठन्ति द्विजॊत्तमाः ।
तॆ सर्वे मुक्तिमायान्ति सुब्रह्मण्यप्रभावतः ॥

सुब्रह्मण्याष्टकमिदं प्रातरुत्थाय यः पठॆत ।
कॊटिजन्मकृतं पापं तत्क्षणात् तस्य नश्यति ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App
श्री सुब्रह्मण्य करावलम्ब अष्टकम PDF

Download श्री सुब्रह्मण्य करावलम्ब अष्टकम PDF

श्री सुब्रह्मण्य करावलम्ब अष्टकम PDF

Leave a Comment