सुमङ्गल स्तोत्रम् PDF संस्कृत
Download PDF of Sumangal Stotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
सुमङ्गल स्तोत्रम् संस्कृत Lyrics
|| सुमङ्गल स्तोत्रम् (Sumangal Stotram Sanskrit PDF) ||
सुमङ्गलं मङ्गलमीश्वराय ते
सुमङ्गलं मङ्गलमच्युताय ते ।
सुमङ्गलं मङ्गलमन्तरात्मने
सुमङ्गलं मङ्गलमब्जनाभ ते ॥
सुमङ्गलं श्रीनिलयोरुवक्षसे
सुमङ्गलं पद्मभवादिसेविते ।
सुमङ्गलं पद्मजगन्निवासिने
सुमङ्गलं चाश्रितमुक्तिदायिने ॥
चाणूरदर्पघ्नसुबाहुदण्डयोः
सुमङ्गलं मङ्गलमादिपूरुष ।
बालार्ककोटिप्रतिमाय ते विभो
चक्राय दैत्येन्द्रविनाशहेतवे ॥
शङ्खाय कोटिन्दुसमानतेजसे
शार्ङ्गाय रत्नोज्ज्वलदिव्यरूपिणे ।
खड्गाय विद्यामयविग्रहाय ते
सुमङ्गलं मङ्गलमस्तु ते विभो ॥
तदावयोस्तत्त्व विशिष्टशेषिणे
शेषित्वसम्बन्धनिबोधनाय ते ।
यन्मङ्गलानां च सुमङ्गलाय ते
पुनः पुनर्मङ्गलमस्तु सन्ततम् ॥
इति श्रीविष्णुचित्तस्वामिकृतं सुमङ्गलस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowसुमङ्गल स्तोत्रम्

READ
सुमङ्गल स्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
