Misc

तञ्जपुरीश शिव स्तुति

Tanjapureesha Shiva Stuti Hindi

MiscStuti (स्तुति संग्रह)हिन्दी
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| तञ्जपुरीश शिव स्तुति ||

अस्तु ते नतिरियं शशिमौले निस्तुलं हृदि विभातु मदीये।

स्कन्दशैलतनयासखमीशानन्दवल्ल्यधिपते तव रूपम्।

स्थास्नुजङ्गमगणेपु भवान्तर्यामिभावमवलम्ब्य समस्तम्।

निर्वहन् विहरसे तव को वा वैभव प्रभवतु प्रतिपत्तुम्।

विश्रुता भुवननिर्मितिपोषप्लोषणप्रतिभुवस्त्वयि तिस्रः।

मूर्तयः स्मरहराविरभूवन् निस्समं त्वमसि धाम तुरीयम्।

सुन्दरेण शशिकन्दलमौले तावकेन पदतामरसेन।

कृत्रिमेतरगिरः कुतुकिन्यः कुर्वते सुरभिलं कुरलं स्वम्।

ईशतामविदितावधिगन्धां प्रव्यनक्ति परमेश पदं ते।

साशयश्च निगमो विवृणीते कः परं भजतु नाथ विना त्वाम्।

सा मतिस्तव पदं मनुते या तद्वचो वदति यद्विभवं ते।

सा तनुस्सृजति या तव पूजां त्वत्परः किल नरः किमु जल्पैः।

कालकूटकवलीकृतिकालोद्दामदर्पदलनादिभिरन्यः।

कर्मभिश्शिव भवानिव विश्वं शश्वदेतदविता भविता कः।

रुक्मिणीपतिमृकण्डुसुतादिष्विन्दुचूड भवतः प्रसृता या।

सा दयाझरसुधारसधारावर्मिता मयि दृगस्तु नमस्ते।

Found a Mistake or Error? Report it Now

तञ्जपुरीश शिव स्तुति PDF

Download तञ्जपुरीश शिव स्तुति PDF

तञ्जपुरीश शिव स्तुति PDF

Leave a Comment

Join WhatsApp Channel Download App