|| श्रीतुकारामाष्टकम् ||
ॐ श्री ।
श्रीशङ्कर ।
(अनुष्टप्)
सन्तश्रेष्ठं परात्मानं अनन्यसदृशं गुरुम् ।
उग्रमन्तर्मृदुं वन्दे तुकारामं हरिप्रियम् ॥ १॥
अम्बलेकुलसम्भूतं देहूग्रामविभूषणम् ।
विरक्तिवल्लभं वन्दे तुकारामं हरिप्रियम् ॥ २॥
अभङ्गरचना यस्य सर्वसाधकदेशिका ।
जनोद्धर्त्री च तं वन्दे तुकारामं हरिप्रियम् ॥ ३॥
वैकुण्ठभवनं त्यक्त्वा लोककल्याण हेतवे ।
अवतीर्णं प्रभुं वन्दे तुकारामं हरिप्रियम् ॥ ४॥
प्रेममूर्तिं भक्तवर्यं सर्ववेदान्तरूपिणम् ।
दयालुं करुणं वन्दे तुकारामं हरिप्रियम् ॥ ५॥
सदाचारपथादर्शं अज्ञानान्धदिवाकरम् ।
प्रसन्नं पावनं वन्दे तुकारामं हरिप्रियम् ॥ ६॥
वेदनीतेः प्रणेतारं दीपं साधनवर्त्मनः ।
पाखण्डखण्डिनं वन्दे तुकारामं हरिप्रियम् ॥ ७॥
विठ्ठलाङ्घ्रिरतं नित्यं “वरदानन्द” दैवतम् ।
शान्तं कृपाकर वन्दे तुकारामं हरिप्रियम् ॥ ८॥
इति स्वामी वरदानन्दभारतीविरचितं श्रीतुकारामाष्टकं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now