Misc

वीरभद्र भुजंग स्तोत्र

Veerabhadra Bhujangam Stotram Hindi Lyrics

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| वीरभद्र भुजंग स्तोत्र ||

गुणादोषभद्रं सदा वीरभद्रं
मुदा भद्रकाल्या समाश्लिष्टमुग्रम्।

स्वभक्तेषु भद्रं तदन्येष्वभद्रं
कृपाम्भोधिमुद्रं भजे वीरभद्रम्।

महादेवमीशं स्वदीक्षागताशं
विबोध्याशुदक्षं नियन्तुं समक्षे।

प्रमार्ष्टुं च दाक्षायणीदैन्यभावं
शिवाङ्गाम्बुजातं भजे वीरभद्रम्।

सदस्यानुदस्याशु सूर्येन्दुबिम्बे
कराङ्घ्रिप्रपातैरदन्तासिताङ्गे।

कृतं शारदाया हृतं नासभूषं
प्रकृष्टप्रभावं भजे वीरभद्रम्।

सतन्द्रं महेन्द्रं विधायाशु रोषात्
कृशानुं निकृत्ताग्रजिह्वं प्रधाव्य।

कृष्णवर्णं बलाद्भासभानं
प्रचण्डाट्टहासं भजे वीरभद्रम्।

तथान्यान् दिगीशान् सुरानुग्रदृष्ट्या
ऋषीनल्पबुद्धीन् धरादेववृन्दान्।

विनिर्भर्त्स्य हुत्वानले त्रिर्गणौघै-
रघोरावतारं भजे वीरभद्रम्।

विधातुः कपालं कृतं पानपात्रं
नृसिंहस्य कायं च शूलाङ्गभूषम्।

गले कालकूटं स्वचिह्नं च धृत्वा
महौद्धत्यभूषं भजे वीरभद्रम्।

महादेव मद्भाग्यदेव प्रसिद्ध
प्रकृष्टारिबाधामलं संहराशु।

प्रयत्नेन मां रक्ष रक्षेति यो वै
वदेत्तस्य देवं भजे वीरभद्रम्।

महाहेतिशैलेन्द्रधिकास्ते
करासक्तशूलासिबाणासनानि।

शरास्ते युगान्ताशनिप्रख्यशौर्या
भवन्तीत्युपास्यं भजे वीरभद्रम्।

यदा त्वत्कृपापात्रजन्तुस्वचित्ते
महादेव वीरेश मां रक्ष रक्ष।

विपक्षानमून् भक्ष भक्षेति यो वै
वदेत्तस्य मित्रं भजे वीरभद्रम्।

अनन्तश्च शङ्खस्तथा कम्बलोऽसौ
वमत्कालकूटश्च कर्कोटकाहिः।

तथा तक्षकश्चारिसङ्घान्निहन्या-
दिति प्रार्थ्यमानं भजे वीरभद्रम्।

गलासक्तरुद्राक्षमालाविराज-
द्विभूतित्रिपुण्ड्राङ्कभालप्रदेशः।

सदा शैवपञ्चाक्षरीमन्त्रजापी
भवे भक्तवर्यः स्मरन् सिद्धिमेति।

भुजङ्गप्रयातर्महारुद्रमीशं
सदा तोषयेद्यो महेशं सुरेशम्।

स भूत्वाधरायां समग्रं च भुक्त्वा
विपद्भयो विमुक्तः सुखी स्यात्सुरः स्यात्।

Found a Mistake or Error? Report it Now

वीरभद्र भुजंग स्तोत्र PDF

Download वीरभद्र भुजंग स्तोत्र PDF

वीरभद्र भुजंग स्तोत्र PDF

Leave a Comment

Join WhatsApp Channel Download App