|| वेणुगोपाल स्तोत्रम् ||
कारुण्यादेव देव प्रवरयदुकुलाम्भोधिभास्वच्छशाङ्क-
लीलाकैवल्यमेतज्जगति विजयते वेणुगानं मनोज्ञम् ।
पीयूषानन्दनादाश्रवणहृतभवध्वान्ततान्ताः परस्मिन्
तत्त्वे विश्रान्तभावाः स्थिरचरनिकराः लिल्यिरे प्राकृताश्च ॥ १॥
गोपा गोप्यश्च गावो जडतरमतयः श्यामधामाभिरामे
नानाकामप्रपूरे कलिकृतदुरितश्रेणिकानां विरामे ।
यन्नादाकृष्टचित्ताः परमसुखमये वेणुगानैकलोले
संसारध्वान्तहन्त्रीं यमिजननिवहैर्दुर्लभां भक्तिमापुः ॥ २॥
कर्मव्रातैः प्रजाभिर्धनततिभिरपि प्राप्नुयुर्नैव मोक्षं
त्यागेनैके भजन्ते परमपदमिति प्रोच्यते वेदशीर्षैः ।
त्यागः कामं जनानां भवविकलधियं दुष्करोऽप्यञ्जसैव
त्यक्त्वा पादं भजन्ते तव मुरलिरवाकर्णनादेव देव ॥ ३॥
कल्याणानां निधानं मणिमुरलिरवं माधवाकर्ण्य मोहा-
दानन्दाब्धौ निमज्जन् खिलमपि विजहौ हन्त संसारतापम् ।
विद्यावाप्त्यै नितान्तं निकटतटभुवं देशिकेन्द्रस्य भक्त्या
गच्छन्तः किन्नु विद्युर्विशदमपि यथा नादबोधेन गोप्यः ॥ ४॥
वन्दे तापिञ्छगुच्छप्रतिभटवपुषं वेणुगोपालमीश-
मञ्चद्रक्ताम्बरश्रीलसितकटितटं बर्हिबर्हावतंसम् ।
सर्वालङ्कारयुक्तं स्मररुचिरमहाकान्तिलावण्यपूरं
वन्दे वृन्दारकेन्द्रस्फुटमकुटतटप्रोल्लसत्पादपीठम् ॥ ५॥
वन्दे लोकगुरुं प्रफुल्लकमलप्रस्पर्धिनेत्रं प्रिया-
ऽऽश्लिष्टन्त्वष्टभुजं नदन्तमलघुप्रेष्ठं स्ववेणुं रसात् ।
गोपीमण्डलमध्यगं स्मरनिभं तापिञ्छचारुप्रभं
वन्दे वन्दितदेववृन्दमनघं श्रीवेणुगोपालकम् ॥ ६॥
देदीप्यच्चित्रभानुप्रकरकृतलसच्चित्ररत्नातपत्र-
च्छाया भ्राजत्पुरुश्रीनवमणिमकुटप्रोल्लसद्बर्हचूडम् ।
अभ्रश्यामं कराब्जोद्धृतमणिमुरलीनादपीयूषवर्षं
सर्वालङ्कारयुक्तं भजत हृदि जना वेणुगोपालराजम् ॥ ७॥
कैवल्यं केवलोऽयं वितरति नितरामित्यसौ वेणुरेकः
पर्याप्तः कालनष्टश्रुतिमतिमलिनान् त्रातुमित्येव देवः ।
तन्नादेनातिधीरं जगति सुविशदं ख्यापयन् स्वं यशश्च
प्रादाद्गोगोपगोपीसुरनरतरुतिर्यग्विमोक्षं मुकुन्दः ॥ ८॥
नादं मोदाद्वितन्वन् मणिमुरलिभवं वासुदेवो मुकुन्दः
कामं तापत्रयार्तिं व्यतनुत जगतान्नायकश्चक्रपाणिः ।
स्वान्ते शान्तेऽस्तपापे किल यदुतिलकः स्वात्मदीप्त्या विराज-
न्नानन्दस्यैकधाम्नि श्रितसकलजनं स्थापयामाय नाथः ॥ ९॥
रागान् रागैरनेकैर्मुररिपुरनयत्संशमं वेणुनाद-
मोदास्वादानुविद्धैर्मधुरसमधुरैः कर्णपीयूषपूरैः ।
निर्विश्यान्तर्जनानां मधुरिपुमुरलीनादधारा भवाग्निं
गाढं गाढं ज्वलन्तं स्वशमयदखिलं हन्त भाग्यं जनानाम् ॥ १०॥
इति वेणुगोपालस्तोत्रं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now