Misc

श्रीविद्यारण्याष्टकम्

Vidyaranyashtakam Sanskrit

Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीविद्यारण्याष्टकम् ||

श्रीविद्यारण्यमुनिध्यानम्
अविद्यारण्यकान्तारे भ्रमतां प्राणिनां सदा ।
विद्यामार्गोपदेष्टारं विद्यारण्यगुरुं श्रये ॥

विद्याविद्याविवेकेन पारं संसारवारिधेः ।
प्रापयत्यनिशं भक्तांस्तं विद्यारण्यमाश्रये ॥

अथ श्रीविद्यारण्याष्टकम् ।
भवभीतिविभेत्तारं भवभूतिप्रदकटाक्षलवलेशम् ।
श्रीविद्यारण्यगुरुं भजे भजत्कल्पभूमिरुहम् ॥ १॥

खरदीधितिनिभवसनं वरदानरतस्वकीयचित्ताब्जम् ।
श्रीविद्यारण्यगुरुं स्मरामि करनिर्जिताम्बुसंजातम् ॥ २॥

करबदरिततर्कद्वयसांख्यद्वयजैमिनीयवेदान्तम् ।
श्रीविद्यारण्यगुरुं कलयाम्येणाङ्कशीतलस्वान्तम् ॥ ३॥

विजयपुरीवैभवदं प्रार्थितमाकृतसुवर्णघनवृष्ट्या ।
श्रीविद्यारण्यगुरुं कलयेऽहं राजराजिकलिताङ्घ्रिम् ॥ ४॥

विनतातनुभववाहनवनितानुग्रहविशेषततिपात्रम् ।
श्रीविद्यारण्यगुरुं विनताघवज्रविनाशकं वन्दे ॥ ५॥

कृतकृतान्तादिभयं कृम्यादिनिखिलकृपासुधाब्धिहृदयम् ।
श्रीविद्यारण्यगुरुं कृत्स्नजगत्कृष्नताबुधं कलये ॥ ६॥

संयमिमणिगणनम्यं चेष्टितवाणीहृदङ्गमतिरम्यम् ।
विद्यारण्यं सौम्यं वन्देऽजस्रं वितीर्णनतकाम्यम् ॥ ७॥

पारदजनिमृतसिन्धोः सारदनिगमान्तवेद्यतत्त्वस्य ।
श्रीविद्यारण्यगुरो वरदायभधृत्कराम्बुजाताव ॥ ८॥

इति श्रीविद्यारण्याष्टकं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीविद्यारण्याष्टकम् PDF

श्रीविद्यारण्याष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App