|| विश्वमूर्तिस्तोत्रम् अथवा विश्वमूर्त्यष्टकस्तोत्रम् ||
श्रीगणेशाय नमः ॥
अकारणायाखिलकारणाय नमो महाकारणकारणाय ।
नमोऽस्तु कालानललोचनाय कृतागसं मामव विश्वमूर्ते ॥ १॥
नमोऽस्त्वहीनाभरणाय नित्यं नमः पशूनां पतये मृडाय ।
वेदान्तवेद्याय नमो नमस्ते कृतागसं मामव विश्वमूर्ते ॥ २॥
नमोऽस्तु भक्तेहितदानदात्रे सर्वौषधीनां पतये नमोऽस्तु ।
ब्रह्मण्यदेवाय नमो नमस्ते कृतागसं मामव विश्वमूर्ते ॥ ३॥
कालाय कालानलसन्निभाय हिरण्यगर्भाय नमो नमस्ते ।
हालाहलादाय सदा नमस्ते कृतागसं मामव विश्वमूर्ते ॥ ४॥
विरिञ्चिनारायणशक्रमुख्यैरज्ञातवीर्याय नमो नमस्ते ।
सूक्तातिसूक्ष्माय नमोऽघहन्त्रे कृतागसं मामव विश्वमूर्ते ॥ ५॥
अनेककोटीन्दुनिभाय तेऽस्तु नमो गिरीणां पतयेऽघहन्त्रे ।
नमोऽस्तु ते भक्तविपद्धराय कृतागसं मामव विश्वमूर्ते॥ ६॥
सर्वान्तरस्थाय विशुद्धधाम्ने नमोऽस्तु ते दुष्टकुलान्तकाय ।
समस्ततेजोनीधये नमस्ते कृतागसं मामव विश्वमूर्ते ॥ ७॥
यज्ञाय यज्ञादिफलप्रदात्रे यज्ञस्वरूपाय नमो नमस्ते ।
नमो महानन्दमयाय नित्यं कृतागसं मामव विश्वमूर्ते ॥ ८॥
इति स्तुतो महादेवो दक्षं प्राह कृताञ्जलिम् ।
यत्तेऽभिलषितं दक्ष तत्ते दास्याम्यहं धुवम् ॥ ९॥
अन्यच्च शृणु भो दक्ष यच्च किञ्चिद्ब्रवीम्यहम् ।
यत्कृतं हि मम स्तोत्रं त्वया भक्त्या प्रजापते ॥ १०॥
ये श्रद्धया पठिष्यन्ति मानवाः प्रत्यहं शुभम् ।
निष्कल्मषा भविष्यन्ति सापराधा अपि भुवम् ॥ ११॥
इति दक्षकृतं विश्वमूर्तिस्तोत्रं सम्पूर्णम् ॥
Found a Mistake or Error? Report it Now