Shiva

विश्वेशलहरी

Vishveshalahari Lyrics

ShivaStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| विश्वेशलहरी ||

श्रीगणेशाय नमः ॥

सिद्धिबुद्धिपतिं वन्दे श्रीगणाधीश्वरं मुदा ।
तस्य यो वन्दनं कुर्यात् स धीनां योगमिन्वति ॥ १॥

वन्दे काशीपतिं काशी जाता यत्कृपया पुरी ।
प्रकाशनार्थं भक्तानां होतारं रत्नधातमम् ॥ २॥

भक्तावनं करोमीति मा गर्वं वह शङ्कर ।
तेभ्यः स्वपूजाग्रहणात्तवेतत्सत्यमङ्गिरः ॥ ३॥

मुधा लक्ष्मीं कामयन्ते चञ्चलां सकला जनाः ।
काशीरूपां कामयेऽहं लक्ष्मीमनपगामिनीम् ॥ ४॥

प्राप्नुवन्तु जना लक्ष्मीं मदान्धनृपसेवनात् ।
लभे विश्वेशसेवातो गामश्वं पुरुषानहम् ॥ ५॥

न मत्कुटुम्बरक्षार्थमाहूयामि श्रियं बुधाः ।
विश्वेश्वराराधनार्थं श्रियं देवीमुपाह्वये ॥ ६॥

आपातरमणीयेयं श्रीर्मदान्धकरी चला ।
असारसंसृतौ काशीं सा हि श्रीरमृता सताम् ॥ ७॥

काशी गङ्गान्नपूर्णा च विश्वेशाद्याश्च देवताः ।
अवन्तु बालमज्ञं मामुशतीरिव मातरः ॥ ८॥

सदैव दुःखकारिणीं न संसृतिं हि कामये
शिवप्रियां सुखप्रदां परां पुरीं हि कामये ।
स्वभक्तदुःखहारकं मनोरथप्रपूरकं
शिवं सदा मुदा भजे महेरणाय चक्षसे ॥ ९॥

स्वसेवकसुतादीनां पालनं कुर्वते नृपाः ।
पास्येवास्मांस्तु विश्वेश गीर्वाणः पाहि नः सुतान् ॥ १०॥

निषेव्य काशिकां पुरीं सदाशिवं प्रपूज्य वै
गुरोर्मुखारविन्दतः सदादिरूपमद्वयम् ।
विचार्य रूपमात्मनो निषेध्य नश्वरं जडं
चिदात्मना तमोभिदं धनेन हन्मि वृच्छिकम् ॥ ११॥

हे भागीरथि हे काशि हे विश्वेश्वर ते सदा ।
कलयामि स्तवं श्रेष्ठमेष रारन्तु ते हृदि ॥ १२॥

विश्वनाथ सदा काश्यां देह्यस्मभ्यं धनं परम् ।
पुरा युद्धेषु दैत्यानां विद्महे त्वां धनञ्जयम् ॥ १३॥

अविनाशि पुरा दत्तं भक्तेभ्यो द्रविणं त्वया ।
काशिविश्वेश गङ्गे त्वामथ ते स्तुम्नमीमहे ॥ १४॥

संसारदाववह्नौ मां पतितं दुःखितं तव ।
विश्वेश पाहि गङ्गाद्यैरागत्य वृषभिः सुतम् ॥ १५॥

काशीं प्रति वयं याम दयया विश्वनाथ ते ।
तत्रैव वासं कुर्याम वृक्षे न वसतिं वयः ॥ १६॥

हे सरस्वति हे गङ्गे हे कालिन्दि सदा वयम् ।
भजामामृतरूपं तं यो वः शिवतमो रसः ॥ १७॥

विश्वनाथेदमेव त्वां याचाम सततं वयम् ।
स्थित्वा काश्यामध्वरे त्वां हविष्मन्तो जरामहे ॥ १८॥

सर्वासु सोमसंस्थासु काश्यामिन्द्रस्वरूपिणे ।
हे विश्वेश्वर ते नित्यं सोमं चोदामि पीतये ॥ १९॥

काश्यां रौद्रेषु चान्येषु यजाम त्वां मखेषु वै ।
हे विश्वेश्वर देवैस्त्वं रारन्धि सवनेषु नः ॥ २०॥

मां मोहाद्या दुर्जनाश्च बाधन्ते निष्प्रयोजनम् ।
विश्वेश्वर ततो मे त्वां वरूत्रीं धिषणां वह ॥ २१॥

रुद्राक्षभस्मधारी त्वां काश्यां स्तौमीश संस्तवैः ।
त्वत्पादाम्बुजभृङ्गं मां न स्तोतारं निदेकरः ॥ २२॥

विहाय चञ्चलं वधूसुतादिकं हि दुःखदं
त्वदीयकामसंयुता भवेम काशिकापुरी ।
स्वसेवकार्तिनाशक प्रकृष्टसंविदर्पक
भवैव देव सन्ततं ह्युतत्वभस्मयुर्वसो ॥ २३॥

विश्वेश काश्यां गङ्गायां स्नात्वा त्वां रम्यवस्तुभिः ।
पूजयाम वयं भक्त्या कुशिकासो अवस्यवः ॥ २४॥

विश्वेश नित्यमस्मभ्यं भयमुत्पादयन्ति ये ।
तेषां विधायोपमर्दं ततो नो अभयं कृधि ॥ २५॥

राक्षसानां स्वभावोऽयं बाध्या विश्वेश जीवकाः ।
भक्तानुकम्पया शम्भो सर्वं रक्षो निबर्हय ॥ २६॥

विश्वेश्वर सदा भीतः संसारार्णवाज्जनात् ।
मां पालय सदेति त्वां पुरुहूतमुपब्रुवे ॥ २७॥

इदं विमृश्य नश्वरं जडं सदैव दुःखदं
समर्चितुं शिवं गताः परां पुरीं यतो द्विजाः ।
ततोऽभिगम्य तां पुरीं समर्च्य वस्तुभिः परैः
शिवं स्वभक्तमुक्तिदं तमिल्यखित्व ईमहे ॥ २८॥

काश्यां वयं सदैव त्वां यजाम सकलैर्मखैः ।
विश्वेश्वर त्वं समस्तैर्देवैरासत्सि बर्हिषि ॥ २९॥

यक्षेश्वरेण रक्षितं श्रेष्ठं धनमखेषु ते ।
देहि व्ययाम शङ्कर ह्यस्मभ्यमप्रतिष्कृतः ॥ ३०॥

मत्पूर्वजा महाशैवा भस्मरुद्राक्षधारिणः ।
विश्वेश्वर सुरेषु त्वामद्वशमिव येमिरे ॥ ३१॥

शम्भोर्विधाय येऽर्चनं तिष्ठन्ति तत्परा यदा ।
तान् शङ्करो गिरे द्रुतं यूथेन वृष्णिरेजति ॥ ३२॥

त्वां पूजयामीश सुरं मानसैर्दिव्यवस्तुभिः ।
हे विश्वेश्वर देवैस्त्वं सोम रारन्धि नो हृदि ॥ ३३॥

प्रादुर्भवसि सद्यस्त्वं क्लेशो भक्तजने यदा ।
ततोऽहं क्लेशवान् कुर्वे सद्योजाताय वै नमः ॥ ३४॥

वामदेवेति मनू रम्यतां यस्य सञ्जगौ ।
ईशस्तस्मात्क्रियते वमदेवाय ते नमः ॥ ३५॥

दयासिन्धो दीनबन्धो योऽस्तीश वरदः करः ।
अस्माकं वरदानेन स युक्तस्तेऽस्तु दक्षिणः ॥ ३६॥

दुष्टभीतस्य मे नित्यं करस्तेऽभयदायकः ।
महेशाभयदाने स्यादुत सव्यः शतक्रतो ॥ ३७॥

महेश्वरीयपदपद्मसेवकः पुरन्दरादिपदनिःस्पृहः सदा ।
जनोऽस्ति यः सततदुर्गतः प्रभो पृणक्षि वसुना भवीयसा ॥ ३८॥

रक्षणाय नास्ति मे त्वां विनेश साधनम् ।
निश्चयेन हे शिव त्वामवस्युराचके ॥ ३९॥

रोगैदुःखैर्वैरिगणैश्च युक्तास्त्वद्दासत्वाच्छङ्कर तत्सहस्व ।
रम्यं स्तोत्रं रोषकरं वचो वा यत्किञ्चाहं त्वायुरिदं वदामि ॥ ४०॥

ध्यायाम वस्तु शङ्करं याचाम धाम शङ्करम् ।
कुर्याम कर्म शङ्करं वोचेम शन्तमं हृदे ॥ ४१॥

माता तातः स्वादिष्ठं च पौष्टिकं मन्वाते वाक्यं बालस्य कुत्सितम् ।
यद्वत्तद्वाक्यं मेऽस्तु शम्भवे स्वादोः स्वादीयो रुद्राय बन्धनम् ॥ ४२॥

शिवं सुगन्धिसंयुतं स्वभक्तपुष्टिवर्धनम् ।
सुदीनभक्तपालकं त्रियम्बकं यजामहे ॥ ४३॥

देव देव गिरिजावल्लभ त्वं पाहि पाहि शिव शम्भो महेश ।
यद्वदामि सततं स्तोत्रवाक्यं तज्जुषस्व कृधि मा देववन्तम् ॥ ४४॥

त्यक्त्वा सदा निष्फलकार्यभारं धृत्वा सदा शङ्करनामसारम् ।
हे जीव जन्मान्तकनाशकारं यक्ष्यामहे सौमनसाय रुद्रम् ॥ ४५॥

स्थित्वा काश्यां निर्मलगङ्गातोये स्नात्वा सम्पूज्य त्रिदशेश्वरं वै ।
तस्य स्तोत्रं पापहरैस्तु देव भद्रं कर्णेभिः शृणुयाम देवाः ॥ ४६॥

वाराणस्यां शङ्करं सुराढ्यं सपूज्येशं वसुभिः सुकान्तैः ।
अग्रे नृत्यन्तः शिवस्य रूपं भद्र पश्येमाक्षभिर्यजत्राः ॥ ४७॥

इच्छामस्त्वां पूजयितुं वयं विश्वेश सन्ततम् ।
प्रयच्छ नो धनं श्रेष्ठं यशसं वीरवत्तमम् ॥ ४८॥

काश्यामुषित्वा गङ्गायां स्नात्वा सम्पूज्य शङ्करम् ।
ध्यात्वा तच्चरणौ नित्यमलक्ष्मीर्नाशयाम्यहम् ॥ ४९॥

असत्पदं स्वहर्षदं न चान्यहर्षदायकं
सदा मुदा प्रसूर्यथा शृणोति भाषितं शिशोः ।
शिवापगाशिवाबलाशिवालयासमन्वितस्तथा
शिवेश नः सुरैर्गिरामुपश्रुतिं चर ॥ ५०॥

सगरस्यात्मजा गङ्गे मताः सन्तारितास्त्वया ।
अगरस्यात्मजा तस्मात् किं न तारयसि ध्रुवम् ॥ ५१॥

प्रायिकोऽयं प्रवादोऽस्तु तरन्ति तव सन्निधौ ।
तारकं नाम ते गङ्गे सन्निधेः किं प्रयोजनम् ॥ ५२॥

मीनैरायतलोचने वसुमुखीवाब्जेन रोमावलीयुक्तो
राजवतीव पद्ममुकुलैः शैवालवल्ल्या युतैः ।
उद्भास्वज्जघनेन वालपुलिनैरुद्यद्भुजेवोर्मिभि-
र्गर्तेनोज्ज्वलनाभिकेव विलसस्येषा परं जाह्नवी ॥ ५३॥

शृङ्गारितां जलचरैः शिवसुन्दराङ्ग-
सङ्गां सदापहृतविश्वधवान्तरङ्गाम् ।
भृङ्गाकुलाम्बुजगलन्मकरन्दतुन्द-
भृङ्गावलीविलसितां कलयेऽथ गङ्गाम् ॥ ५४॥

विश्वेशोऽसि धनाधिपप्रियसखा किं चान्नपूर्णापति-
र्जामाता धरणीभृतो निरुपमाष्टैश्वर्ययुक्तः स्वयम् ।
चत्वार्येव तथापि दास्यसि फलान्यात्माश्रयान्ते चिरं
तेभ्योऽतो बत युज्यते पशुपते लब्धावतारस्तव ॥ ५५॥

दोषाकरं वहसि मूर्ध्नि कलङ्कवन्तं
कण्ठे द्विजिह्वमतिवक्रगतिं सुघोरम् ।
पापीत्ययं मयि कुतो न कृपां करोषि
युक्तैव ते विषमदृष्टिरतो महेश ॥ ५६॥

अस्ति त्रिनेत्रमुडुराजकला ममेति
गर्वायते ह्यतितरां बत विश्वनाथ ।
त्वद्वासिनो जननकाशिशशाङ्कचूडा-
भालेक्षणाश्च न भवन्ति जनाः कियन्तः ॥ ५७॥

कामं सन्त्यज नश्वरेऽत्र विषये वामं पदं मा विश
क्षेमं चात्मन आचर त्वमदयं कामं स्मरस्वान्तकम् ।
भीमं दण्डधरस्य योगिहृदयारामं शिरप्रोल्लसत्सोमं
भावय विश्वनाथमनिशं सोमं सखे मानसे ॥ ५८॥

सम्पूज्य त्रिदशवरं सदाशिवं यो विश्वेशस्तुतिलहरीं सदा पठेद्वै ।
कैलासे शिवपदपङ्कजराजहंस आकल्पं स हि निवसेच्छिवस्वरूपः ॥ ५९॥

अनेन प्रीयतां देवो भगवान् काशिकापतिः ।
श्रीविश्वनाथः पूर्वेषामस्माकं कुलदैवतम् ॥ ६०॥

इयं विश्वेशलहरी रचिता खण्डयज्वना ।
विश्वेशतुष्टिदा नित्यं वसतां हृदये सताम् ॥ ६१॥

नाम्ना गुणैश्चापि शिवैव माता तातः शिवस्त्र्यम्बकयज्वनामा ।
मल्लारिदेवः कुलदैवतं मे श्रीकौशिकस्यास्ति कुले च जन्म ॥ ६२॥

इति श्रीगणेशदीक्षितात्मजत्र्यम्बकदीक्षिततनूजखण्डराजदीक्षितविरचिता
विश्वेशलहरी सम्पूर्णा ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download विश्वेशलहरी PDF

विश्वेशलहरी PDF

Leave a Comment

Join WhatsApp Channel Download App