|| वृषाद्रिनाथस्तोत्रम् ||
श्रीशेषशिखरिस्वामिन् रमाभृद्वक्षसस्तव
विलसत्पद्मसङ्काशौ चरणौ शरणं भजे ॥
त्वत्कल्याणगुणाङ्कितामलवचःपाळी सुधास्यन्दिनी
नृत्यन्ती वदने स्वयं विलसते मूढस्य मे श्रीविभो ।
क्षोणीमण्डलसंस्थसर्वरसिका नन्दौघसन्दायिनी
दुर्मांसा शनतत्परे वनमृगे व्याप्ता न किं चन्द्रिका ॥ १॥
वेदास्सर्वसुरेश्वराः कमलभूश्शम्भुश्च मन्वादयः
स्तोतुं यस्य महत्त्वमक्षमतमा व्यासादयश्चाभवन् ।
त्वद्दासस्त्वदुपाश्रितस्तव सुतस्तस्मादहं निर्भयः
स्वामिंस्तादृशवैभस्य भवतः कर्तुं यतिष्ये स्तुतिम् ॥ २॥
श्रीवत्साङ्कयतीन्द्रसंनुतहरे श्रीवेङ्कटाख्ये गिरौ
वैकुण्ठात्स्वयमागतः प्रकृतिसंश्लिष्टानिमान् प्राणिनः ।
ब्रह्माण्डान्तरसंस्थितान् हि कृपया पातुं सदा वर्तसे
तस्माद्विश्वविधायिनस्तव कृपा निर्हेतुकैव ध्रुवम् ॥ ३॥
प्रह्लादः करिराङ् विभीषण इति ख्याताश्च भक्ता ह्यमी
भक्त्या लब्धभवत्कृपापरिणतां तां लेभिरे संपदम् ।
तस्मात्केचिदहो सहेतुकपरां व्याचक्षिरे त्वत्कृपां
तेषां भक्तिमनिन्दितां तव कृपालब्धां कथं नोचिरे ॥ ४॥
सर्वेषां जगतां हि रक्षणविधौ सक्ता कृपा तावकी
काकं भू —– निलयं संरक्षयन्नाद्भुतम् ? ।
मोहाद्दुर्विषयेषु सक्तमनसां पापात्मनामादिमं
मिथ्यादास्ययुतं त्वरक्षदिति मां चित्रं हरे श्रीविभो ॥ ५॥
हे स्वामिन् भवराजयक्ष्मणि बहुप्रारब्धनानामय-
व्यालीढ ढे क्षणदुर्भरेतर गुरुतरै रन्यै रसाध्ये परम् ।
मग्नानां जडताजुषां प्रतिपदं तापत्रयीमूर्च्छया
क्लिन्नानां सकलात्मनां विजयते सञ्जीवनी त्वत्कृपा ॥ ६॥
दातॄणां प्रवरेण तेन भवता देयं धनं शाश्वतं
सङ्ख्यातीतमनन्तमङ्गलपदं प्राप्यं सुखान्वेषिणाम् ।
त्यक्त्वा लोष्टविकादिकाम्यमघदं काङ्क्षन्ति ये त्वैहिकं
तान्मूढानपि हे विभो तव कृपा मातेव संरक्षते ॥ ७॥
सर्वेषां जगतामधीश्वर इति त्वां ख्यापयन् श्रीविभो
स्फूर्जत्प्रत्नचिरत्नरत्नखचितः कोटीनतुल्यप्रभः ।
ब्रह्मेशानसुरेन्द्रसर्वदिविजैः संस्तूयमानस्य ते
साक्षान्मन्मथमन्मथस्य मकुटी संराजते मस्तके ॥ ८॥
देव त्वन्मुखपङ्कजोपरि महासौरभ्यलोभागताः
स्निग्धारालविनीलकुन्तलगणा वल्गन्ति भृङ्गा यथा ।
कर्णाटोर्णौ चोत्पलकर्णपूर विसरत्कान्ति छटाराजितौ
पश्ये सुन्दरशष्कुलीपरिचितौ श्रीशेषभूभृद्विभो ॥ ९॥
कर्पूरार्पितमूर्ध्वपुण्ड्रमलिके विभ्राजते सन्ततं
हारिद्रं तिलकं च शेषधरणीभृद्वल्लभ श्रीविभो ।
लावण्यामृतपूरपूरितमुखे किं पुण्डरीकद्वयं
भाभातीति महाद्भुतं जनयते द्वन्द्वं हि ते नेत्रयोः ॥ १०॥
भ्रूभङ्गाङ्कयुतं शुचिस्मितरुचिज्योत्स्नापरिष्कारितं
सेवे त्वन्मुखचन्द्रमण्डलमहं जृम्भत्तमोहारिणम् ।
स्वामिन् शुक्रबृहस्पती चिरतरात्तस्योभयोः पार्श्वयोः
भ्राजन्ताविव रत्नपुञ्जखचिते द्वे कुण्डले गण्डयोः ॥ ११॥
दन्तालिस्तव कुन्दकुड्मलततेस्तुल्या परं राजते
सौगन्ध्यादहिचाम्पकेयकलिकाप्रोद्भासिका नासिका ।
स्वामिन् विद्रुमबिम्बयुग्ममधरं व्यातन्वते माधुरी-
सौरभ्यारुणताश्रयस्त्वदधरः श्रीशेषभूभृद्विभो ॥ १२॥
ग्रैवेयादिविभूषणानुकलितः कण्ठस्त्वदीयो हरे
शेषाद्रीश सुवर्णपट्टकलितं शङ्खं विडम्बीयते ।
चत्वारः किल जातपल्लवसुरक्षोणीजशाखा इव
द्योतन्ते तव बाहवः प्रविलसद्रत्नाङ्गदालङ्कृताः ॥ १३॥
श्रीवैकुण्ठमिदं पदाब्जयुगमित्यादर्शयन्नात्मनां
श्रीहस्तस्तव दक्षिणश्शमयते तापं भवोपार्जितम् ।
हस्तोऽन्यः कटिसङ्गतः कथयते कुक्षिस्थसङ्ख्यातिग-
ब्रह्माण्डातिभरोद्धृतेर्दृढबलं मध्यस्य कर्तुं दशाम् ॥ १४॥
अन्यो दक्षिणपाणिरप्यमरराजात्यन्तबाधाकृतां
दैत्यानां वधकारि चक्रमनिशं धत्तेऽञ्जनाद्रिप्रभो ।
अन्यो वामकरस्तदब्जनयनागर्भैकनिर्भेदना-
रावं शङ्खमुदारचन्द्रसुषमं धत्ते त्रिलोकीविभो ॥ १५॥
यस्मिन् कौस्तुभबिम्बितां निजतनुं दृष्ट्वा रमाऽन्येर्ष्यया
त्वां पश्यत्यध ईक्ष्यदृक्प्रसरणैर्वक्षस्तदुद्भावये ।
संवर्ते विशते यदन्तरगृहं ब्रह्मादिजीवावलिः
तस्यां ते विनिवर्तते च जठरं तत्कीर्तये ते हरे ॥ १६॥
ब्रह्मावासपयोजनालनिलयं मे चित्तहं सोऽधुना
लावण्यामृतपूरितं प्रविशते नाभिह्रतं तावकम् ।
कीर्यत्काञ्चनवारिजायतरजस्तुल्याम्बरालङ्कृतं
वल्गन्मेखलया परिष्कृतमहं मध्यं भजे सुन्दरम् ॥ १७॥
रम्भास्तम्भमदेभहस्तकरभप्रागल्भ्यचौर्यक्षमौ
ऊरू मे हृदयाब्जदर्पणतलस्तंभानुभावं गतौ ।
स्वामिन्नञ्जनशैलनाथ सततं सेवे भवज्जङ्घिके
स्फूर्जन्मन्मथकाहलीकमलगर्भाकारलीला जुषौ ॥ १८॥
स्वामिन् वेदसुवर्णहंसककृतप्रोद्वेलशोभाझरी-
चञ्चद्दिव्यमुनीशमानससरोजाताब्जलीलावहौ ।
नित्यं श्रीकरपल्लवानुकलनासंवाहितौ सुन्दरौ
पादौ तेऽञ्जनशैलनायक निधिप्रायौ सदा संश्रये ॥ १९॥
प्रागुत्तुङ्गपयोधिवारिधिजले त्वं योगनिद्रां भजन्
नाभिप्रोत्थितपङ्कजस्थितविधिं दृष्ट्वा बहुव्याकुलम् ।
पुच्छोद्घट्टनकम्पिताखिलजगन्मीनाकृतिं भेजिवान्
घोराकारयुतं सुरारिमवधीश्चोरं श्रुतीनां हरे ॥ २०॥
जृम्भद्दैत्यसुपर्वबाहुपटलीसंसक्तसर्पाधिराड्-
भोगालीढविघूर्णितावनिधरे मग्ने जले वारिधेः ।
वास्तल्यादुदधार्षि ? भूधरममुं त्वं कच्छपाकारवान्
ब्रह्मेशानबलारिपु स्तुतिपरेष्वम्भोरुहाक्ष प्रभो ॥ २१॥
स त्वं जृम्भितघुर्घुरारवविभिन्नाशावशावल्लभ-
श्रोत्रो यज्ञवराहमूर्तिरसुरं हत्वा हिरण्याक्षकम् ।
अम्भोधौ सरसीव नागदशनाग्रासक्तपद्माकृतिं
दंष्ट्राग्रेण रसामधार्षि भगवञ् श्रीशेषभूभृद्विभो ॥ २२॥
प्रह्लादाभयदामरेश्च भयदां ते नारसिंहीं तनुं
वन्दे भूरिसटाच्छटाविदलित प्रोत्तुङ्ग धाराधराम् ।
घूर्णत्पाटलनेत्रकोणनिपतज्ज्वालास्फुलिङ्गावृत-
क्षोणीचक्रतलां हिरण्यकशिपुप्रध्वंसिकां श्रीविभो ॥ २३॥
भिक्षुत्वाट्बहुदैन्यतो बलिसखे खिन्नस्तदा सायनैः वामनः
तिष्ठन्वेङ्कटभूधरे बहुजनाद्वित्तं बलादाप्स्यसे । ?
क्षत्रान् पापवतो महाबलयुतांस्त्रिस्सप्तकृत्वोऽवधीः
तीक्ष्णाग्रेण परश्वथेन भगवंस्त्वं भार्गवस्सन् हरे ॥ २४॥
रामो दाशरथिर्भवंस्त्रिभुवनप्रख्याततेजोरवि-
प्रोद्वेलांशुगणैरिवातिनिशितौस्सान्द्रैश्शरैस्सानुजः ।
शेषाद्रीश विभो सुरारिमवधीस्सीतारमाचोरकं
पौलस्त्यं दशकन्धरं युधि जगद्विद्रावणं रावणम् ॥ २५॥
स्वामिन् हन्तुमशक्यमम्बुजभवास्त्राद्यैश्शरैस्तीक्षणैः
कक्षे रावणमानिबध्य चतुरो वार्धिन् य आसेदिवान् ।
तादृग्विक्रमशालिनं बलवतामग्रेसरं वालिनं
धैर्यादेकशरेण घोरमवधीश्चित्रं महत्वं तव् ॥ २६॥
त्यक्त्वा त्वामिह धर्मरूपमनघं यत्तुच्छधर्मार्थिने
त्वत्पित्रे न कृतैव मोक्षसरणिर्जाताय सूर्यान्वये ।
तत्कार्यं मम धर्म इत्यभिमतं प्राप्ताय गृघ्राय वै
तच्चित्रं परमं पदं भगवता दत्तं त्वया श्रीविभो ॥ २७॥
यस्ते भूर्यपराधकृच्चलमतिर्दृप्तश्च काकासुरः
पापात्मा भवदस्त्रघर्षणभिया धावन्विधीन्द्रेश्वरान् ।
मां रक्षध्वमितीच्छया शरणमागम्याक्षमैरक्षितुं
त्यक्तस्तैः पुनरागतस्तव कृपापात्रं बभूव प्रभो ॥ २८॥
अत्रत्याखिलभक्तरक्षणमिषाद्ब्रह्मादिभिः संस्तुतः
कान्तारे पितृवाक्यपालनपरः स्वाम्यागमिष्यत्यसौ ।
इत्येवं दृढनिश्चयात्तमनसा दत्तं शबर्या फलं
भुक्त्ता तृप्तिमवाप्यसे रघुवर श्रीशेषभूभृद्विभो ॥ २९॥
क्रूराणां भुवि दानवाम्शजनुषां कंसादिदुष्टात्मनां
संहाराय वसुन्धरास्थितजनात्यन्तव्यथाकारिणाम् ।
श्रीकृष्णोऽसि निजाङ्घ्रिपद्मयुगसेवासक्तशिष्टात्मनां
संरक्षाभरकारणाय च हरे श्रीशेषभूभृद्विभो ॥ ३०॥
पौरावेदितनैजचेष्टितगणानाकर्ण्य मात्रा भृशं
कुप्यन्त्या यदुलूखले दृढतरं रज्ज्वा निबद्धो भवान् ।
लीलाभिस्तदुलूखलं करतलेनोद्धाट्य गत्वाऽर्जुन-
द्वन्द्वस्यामररूपतामविदधच्छेषक्षमाभृद्विभो ॥ ३१॥
बाले मातुलसंज्ञकेन रिपुणा कंसेन या प्रेषिता
वक्षोज (द्वय) गुप्तभूरिगरला तत्पूतना या पुरा ।
स्तन्यं क्ष्वेलमयं सहासुभिरहो पीत्वा च निश्चेतनां
कृत्वा तां गिरिसन्निभामविहरच्छ्रीमान् भवान् श्रीविभो ॥ ३२॥
एकं बालमधो विधाय विजने स्थित्वा च तस्योपरि
क्षिप्रं गोपगृहे पिबन् दधि महायन्त्रे घटान्तःस्थितम् ।
शेषं तस्य मुखे विमृज्य सहसा निर्गत्य तत्रान्तरे
ह्यायातैर्गृहिभिर्निरीक्ष्य स भवान् तं ताहितं प्राहसत् ॥ ३३॥
बाल्येन त्वयि मृत्तिकां कबलयत्याक्रोशतः सादरं
मात्रा मृत्परिहारणाय वदनं चोद्धाठ्य ते पाणिना ।
यत्रालोक्य किलाब्जजाण्डपटलीमाश्चर्यसंमोहिता
तस्थावञ्जनशैलनायक हरे माया तवात्यद्भुता ॥ ३४॥
कालिन्दीसविधे विनोदमुरलीनादेन संमोहिताः
सुन्दर्यस्त्वरयाऽऽगताः स्मरनिभं त्वां वीक्ष्य गोपाङ्गनाः ।
त्वद्ब्रह्मात्मकताविलोकनदशापन्ना मुनीशा यथा
दिव्यानन्दपयोधिमग्नमनसोऽभूवन् वृषाद्रि प्रभो ॥ ३५॥
हे स्वामिन् यमुनातटे तव परं वेत्तुं महत्त्वं पुरा
वत्सान् धेनुगणांश्च गोपपृथुकान् धात्रा स्वमायाहृतान् ।
ज्ञात्वा तादृशरूपकांस्त्वमपि तान् कृत्वा मनोहङ्कृतिं
छित्त्वा तस्य बहूकृतिं च कमलास्वामिन्नकार्षीः प्रभो ॥ ३६॥
अक्रूराय भवत्पदैकप्रनसे पूर्वं त्वया दर्शितान्
दीप्यत्कौस्तुभशङ्खचक्रमकुटीश्रीविद्युता शोभितान्
दिव्यानन्दमयामितामृतरसासारप्रदान् श्रीविभो
सेवेऽहं बहुविग्रहान् घननिभांस्त्वद्विश्वरूपात्मकान् ॥ ३७॥
बिभ्रल्लाङ्गलमायुधं सुररिपून् भिन्दन् सपक्षान्नृपान्
संरक्षन् करुणार्द्रदृष्टिभिरमून् लोकान् समालोकयन्
इन्द्राद्यैर्दिविजौस्स्तुते कटितटीनीलाम्बरालङ्कृतो
रेवत्या हृदयप्रियोऽसि भगवन् श्रीशेषभूभृद्विभो ॥ ३८॥
बुद्धोऽसि त्रिपुराङ्गनाव्रतकृते भङ्गं विधायासुरान्
तद्भर्तॄन् शितिकण्ठसायकहतान् कृत्वा पुरा श्रीविभो ।
म्लेच्छान्वाजिखुरोद्धतक्षितिपरागाच्छादिताशाम्बरान्
क्षुद्रान् भूरिबलान् नृशंसचरितान् कल्की हरिष्यस्यहो ॥ ३९॥
पङ्केजातभवो जगज्जननकृट्ब्रह्मा चतुर्भिर्मुखैः
क्षोणीमण्डलभारवाहचतुरश्शेषस्सहस्राननैः ।
यत्खेलाविहितावतारगणनां कर्तुं न शक्तो हरे
तेऽनन्ताः खलु दिव्यमङ्गलगुणैः संशोभितास्तावकाः ॥ ४०॥
त्वत्पादाम्बुजयुग्मचिन्तनसुधापानैकलोलात्मनः
पुंसो मानसमन्यदेव विषयं कृत्यं कथं वाञ्छति ।
त्यक्त्वा दिव्यरसालसालजनितं माधुर्यसारं फलं
कीरः काङ्क्षति किं शलाटुपटलं नैम्बं हरे श्रीविभो ॥ ४१॥
अज्ञानावृतमात्मधर्मरहितं दूष्यं च नीचैर्गुणैः
नानादुर्विषयानुषक्तहृदयं क्षुद्रं कृतघ्नं जडम् ।
त्वद्भक्तेषु कृतापचारमपि मां संरक्षसे ? बन्धुवत्
तस्मात्त्वां न च विस्मरामि सततं श्रीशेषभूभृद्विभो ॥ ४२॥
संशोध्यन्मणिदीपकस्थिरदृशा सन्यांशितास्सन्त्यजन् ?
लब्ध्वा वज्रमनर्धमात्तकुतुकस्सन्न त्यजत्यादरात् ।
त्रय्या शोधयता मुमुक्षुरखिलान् सामान्यदेवांस्त्यजन्
लब्ध्वा त्वां शरणं परात्परतरं हृष्यन्न मुञ्चत्यहो ॥ ४३॥
भूसंस्थाश्च पराशरप्रभृतयः खे नारादाद्यर्षयः
पङ्केजोद्भवलोकसंस्थमुनयस्सर्वे सनन्दादयः ।
तत्सायुज्यसमुद्युजोऽपि परमे व्योम्नि स्थितास्सूरयः
त्वमेवाञ्जनशैलराजनिलयं पस्यन्ति वै सन्ततम् ॥ ४४॥
शेषाद्रेश्शिखरे सुवर्णरचिते साले कटाहाकृतौ
गुप्तं मूलधनं यथा तव परब्रह्मस्वरूपं हरे ।
विज्ञानाञ्जनमुद्रितान्तरदृशा दृष्ट्या भृशं योगिनः
प्रयच्छन्नुपलभ्य मोक्षसरणीदारिद्र्यनिर्मोचनम् ॥ ४५॥
ईशानं जगतामनन्तगुणिनं दिव्योल्लसद्विग्रहं
लक्ष्मीशं धृतशङ्खचक्रमनघं शेषक्षमाभृद्विभो ।
सत्यं ज्ञानमनन्तमित्यभिमतश्रुत्यर्थवैषम्यतः
व्याचक्षन् कुदृशो निराकृतिकलं त्वां निर्गुणं मायिनः ॥ ४६॥
ब्रह्माद्यईः सकलैस्सुपर्वपतिभिर्यद्वै दुरापं पदं
ध्यानोन्मीलितयोगिनामपि भृशं यच्चेतसां दूरगम् ।
यद्वाचामपि दूरवर्ति परमं दद्धाम लक्ष्मीविभो
त्वत्पादाब्जयुगप्रपत्तिनिरता गच्छन्ति सौलभ्यतः ॥ ४७॥
त्वद्भक्तो निवसन्निहैव द्रुहिणस्याण्डाद्बहिस्संस्थिते
वैकुण्ठेऽनुभवत्यपारकरुणं त्वां दिव्यदृष्ट्या हरे ।
वात्सल्यादनुवर्तसे त्वमपि तं नित्यानपायात्मना
वत्सं धेनुरिवानुलालनरता श्रीशेषभूभृद्विभो ॥ ४८॥
शेषाद्रीश कियन्निशाकरसुधासारासुलुण्टाकिनी ?
दृक् ते सञ्चरिणी जिजीवयिषते जागत्कजीवव्रजान् ।
कल्पस्स व्यवह्नी ह्यभिधी यते सहि लयः कालः परीफण्यते
हालाहल्यशिखावलीसहचरी यस्मिन्विसर्पिष्यति ॥ ४९॥
सृष्ट्यां भौतिकरूपकाण्यपघनान्यास्वाद्य वै प्राणिनः
पुण्यापुण्यपरीणतानि परितश्चाराचरव्यापिनः ।
स्वर्गं नार्कमम्बुजासनपदं धात्रीमधोविष्टपं
यातायातशतैः प्रयान्ति भवते मायाविमोहीकृताः ॥ ५०॥
मायावृत्तकलेवरान्तरगतास्सर्वे तनूभृद्गणाः
ब्रह्माण्डान्तरकोणकूपकुहरे विभ्रामिताः कर्मभिः ।
तन्निष्क्रामिकमार्गबोधरहितास्तिष्ठन्ति मूढात्मकाः
बद्धद्वारविटङ्कमध्यविचराः कीटा इव श्रीविभो ॥ ५१॥
एतायस्तावद्भवमग्नजन्तुगणितः पापात्मनामादिमः
क्षुद्रः क्रूरमना नृशंसचरितस्चापल्यदोषाकरः ।
दृप्तस्सन्ततनीचकृत्यनिरतो गत्यन्तराभाववान्
सोऽहं ते चरणौ व्रजामि शरणं श्रीशेषभूभृद्विभो ॥ ५२॥
सर्वेष्वब्जभवाण्डकोटिषु जनास्सङ्ख्यापराश्चेत्सदा
तेषामायुरनन्तकालिकमिति स्याच्चेत्परार्धादिकम् ।
सङ्ख्याऽन्या समुपार्जिता यदि भवेदाजन्मजन्मान्तरं
स्वामिन् मत्कृतपातकानि गणितुं शक्यानि लक्ष्मीविभो ॥ ५३॥
आस्तां कल्पशतानुभाव्यदुरितव्रातः परं दुर्वचः
त्वत्कैङ्कर्यरुचिः कदाचिदपि वा नास्त्येव मे पापिनः
शेषक्ष्माधरनाथ मामथ यतो रक्षेति वाङ्नास्ति तत्
स्वामिन् केवलतावकीयकृपया संरक्षणीयो हरे ॥ ५४॥
पुत्रत्वान्न च हातुमिच्छसि हरे पापात्मकत्वाच्च मां
स्वामिन्नानुग्रहीतुमिच्छसि परं नाचा ? शङ्क्य दौष्कामिकम् ।
तस्मान्नारकदुःखहेतुदुरितं दृष्ट्वा परं दुःख्यसि
हाहा हन्त तवापि दुःखवशतां दास्यामि लक्ष्मीविभो ॥ ५५॥
पापानीह मया कृतानि गणितुं शक्यानि लक्ष्मीविभो
सद्यस्तानि समुह्य वारय कृपादृष्ट्या निरातङ्कया ।
यद्वा तावकभक्तिमेव परमां तन्निष्कृतिं देहि मे
नोपेक्ष्यश्शरणागतः खलु धरानाथस्य सत्यात्मनः ॥ ५६॥
यद्वा दुर्वचपापकृत्यनिरतं मं रक्ष लक्ष्मीविभो
वात्सल्यादिगुणोदधिं मम गुरुं संवीक्ष्य सत्त्वात्मकम् ।
कृत्वा मायिनिराकृतिं तव मतप्रख्यातनिर्वाहकं
ब्रह्मेन्द्रादिकिरीटरत्नसुषमानीराजिताङ्घ्रे हरे ॥ ५७॥
त्वद्याथात्म्यनिबोधके मनुवरे निष्टामवाप्यादरात्
ओङ्कारार्थमवेत्य तत्त्वसशरणाणस्तन्नारशब्दोदितम्
अर्थं चायनशब्दवेद्यममलं व्युत्पत्तियुग्मेप्सितं
मुक्तस्स्याद्विबुधोचितार्थमपि वै ज्ञानी चतुर्थीरितम् ॥ ५८॥
लक्ष्मीनाथ परात्मनश्चिदचितोस्तत्त्वस्य रूपं विदन्
शेषित्वं भवतश्चराचरविभोश्शेषत्वमप्यात्मनः ।
वैषम्यं प्रकृतेर्विचाय सदुपायोपेयभावात् सुधीः
त्वत्पादौ शरणं गतस्तदितरो सन्मुक्तो भवेत्सन्त्यजन् ॥ ५९॥
सुक्तस्संप्रतिपूजितस्सुरवरैर्ब्रह्मादिभिस्संव्रजन्
अण्डं चावरणान्यतीत्य च महाव्यक्तेस्तक्ते त रन्वै ततः
स्नातस्सन् विरजासरित्यथ भजन् दिव्योल्लसद्विग्रहं
वैकुण्ठं भवतैव नन्दति समं श्रीशेषभूभृद्विभो ॥ ६०॥
सौवर्णाञ्चितदिव्यवज्रफलकप्रत्युप्तसालावृते
भव्योत्तुङ्गसहस्ररत्नखचितस्तम्भोद्धृते मण्डपे ।
देवीभिस्सह संस्थितं फणिपतेर्भोगे फणालङ्कृते
ध्याये त्वां धृतशङ्खचक्रमनघं संवेष्टितं सूरिभिः ॥ ६१॥
दिव्यं तत्पुरधामनामकपुरद्वारोल्लसद्गोपुरं
भास्वत्कोटिसमप्रभं हृदि सदा ध्यायेऽञ्जनाद्रिप्रभो ।
तस्मिन् या विरजा नदी प्रवहते तस्योभयोः पार्श्वयोः
सौवर्णद्रुमपुष्पगुच्छसुरभीण्युद्यानवृन्दानि च ॥ ६२॥
हरे सूरयस्ते परे धाम्नि संस्थाः
नमन्तो वदन्तेतो भवत्कीर्तनानि ।
प्रगीययाथ साम प्रधीयन्ति कीर्तिं
वितन्वन्ति नित्यं विचित्रं च कृत्यम् ॥ ६३॥
क्वचित्कीररूपा हरे सूरयस्ते
प्रवक्ष्यन्ति नामानि शाखिव्रजेषु ।
क्वचिद्भृङ्गरूपा भवन्माल्यगन्धान्
समाघ्राय दिव्यं प्रमोदं लभन्ते ॥ ६४॥
तव परमपदे वै सूरयः पार्ष्वयोस्ते
परिषदि रचयन्ते द्राविडाम्नायगानम् ।
इति यतिकुलनाथश्रीशठारिप्रमुख्याः
अपि च गुरुवरास्ते मङ्गलान्याचरन्ति ॥ ६५॥
श्रीशेषशैलशिखरे चिदचिद्विशिष्टं
श्रीसंश्रितोरसमपारकृपैकपात्रम् ।
आपादशीर्षमवलोक्य हरे जनास्त्वां
भक्ताभयप्रद सदैव मुदं लभन्ते ॥ ६६॥
अम्मङ्गिवेङ्कटाचार्यचरणाम्बुजसंश्रितः ।
चकार रघुनाथार्यः शेषभूभृद्विभोस्स्तुतिम् ॥
॥ इति तिरुनन्दाळ्वंशरघुनाथाचार्येण कृतं
वृषाद्रिनाथस्तोत्रं संपूर्णम्॥
Found a Mistake or Error? Report it Now