Download HinduNidhi App
Shri Radha

श्री युगलकिशोराष्टकम्

Yugalkishor Ashtakam Sanskrit

Shri RadhaAshtakam (अष्टकम निधि)संस्कृत
Share This

|| श्रीयुगलकिशोराष्टकम् ||

श्रीमद्रूपगोस्वामिविरचितम् ।
नवजलधरविद्युद्योतवर्णौ प्रसन्नौ
वदननयनपद्मौ चारुचन्द्रावतंसौ ।
अलकतिलकफालौ केशवेशप्रफुल्लौ
भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥

वसनहरितनीलौ चन्दनालेपनाङ्गौ
मणिमरकतदीप्तौ स्वर्णमालाप्रयुक्तौ ।
कनकवलयहस्तौ रासनाट्यप्रसक्तौ
भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥

अतिमतिहरवेशौ रङ्गभङ्गीत्रिभङ्गौ
मधुरमृदुलहास्यौ कुण्डलाकीर्णकर्णौ ।
नटवरवररम्यौ नृत्यगीतानुरक्तौ
भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥

विविधगुणविदग्धौ वन्दनीयौ सुवेशौ
मणिमयमकराद्यैः शोभिताङ्गौ स्फुरन्तौ ।
स्मितनमितकटाक्षौ धर्मकर्मप्रदत्तौ
भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥

कनकमुकुटचूडौ पुष्पितोद्भूषिताङ्गौ
सकलवननिविष्टौ सुन्दरानन्दपुञ्जौ ।
चरणकमलदिव्यौ देवदेवादिसेव्यौ
भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥

अतिसुवलितगात्रौ गन्धमाल्यैर्विराजौ
कति कति रमणीनां सेव्यमानौ सुवेशौ ।
मुनिसुरगणभाव्यौ वेदशास्त्रादिविज्ञौ
भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥

अतिसुमधुरमूर्तौ दुष्टदर्पप्रशान्तौ
सुखरसवरदौ द्वौ सर्वसिद्धिप्रदानौ ।
अतिरसवशमग्नौ गीतवाद्यैर्वितानौ
भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥

अगमनिगमसारौ सृष्टिसंहारकारौ
वयसि नवकिशोरौ नित्यवृन्दावनस्थौ ।
शमनभयविनाशौ पापिनस्तारयन्तौ
भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥

इदं मनोहरं स्तोत्रं श्रद्धया यः पठेन्नरः ।
राधिकाकृष्णचन्द्रौ च सिद्धिदौ नात्र संशयः ॥

इति श्रीमद्रूपगोस्वामिविरचितं श्रीयुगलकिशोराष्टकं सम्पूर्णम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री युगलकिशोराष्टकम् PDF

श्री युगलकिशोराष्टकम् PDF

Leave a Comment