|| श्री कनकदुर्गा आनन्दलहरी ||
वन्दे गुरुपदद्वन्द्वमवाङ्मानसगोचरम् ।
रक्तशुक्लप्रभामिश्रमतर्क्यं त्रैपुरं महः ॥
अखण्डमण्डलाकारं विश्वं व्याप्य व्यवस्थितम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥
शिवे सेवासक्ताश्रितभरणकार्यैकचतुरे
शिरोभिर्वेदानां चिरविनुतकल्याणचरिते ।
स्मितज्योत्स्नालीलारुचिररुचिमच्चन्द्रवदने
जगन्मातर्मातर्जय कनकदुर्गे भगवति ॥ १॥
नगाधीशट्कन्ये नलिनदळसङ्काशनयने
सुगीतैर्गन्धर्वैस्सुरयुवतिभिश्चानुचरिते । var श्लाघ्यचरिते
अगण्यैराम्नायैरपि गुणनिकायैर्विलसिते
जगन्मातर्मातर्जय कनकदुर्गे भगवति ॥ २॥
निजश्रेयस्कामैर्निटलघटितां च तत्करपुटैः
स्तुवद्भिस्सानन्दं श्रुतिमधुरवाचां विरचनैः ।
असङ्ख्यैर्ब्रह्माद्यैरमरसमुदायैः परिवृते
दया कर्तव्या ते मयि कनकदुर्गे भगवति ॥ ३॥
भवत्पादन्यासोचितकनकपीठीपरिसरे
पतन्तस्साष्टाङ्गं मुदितहृदया ब्रह्मऋषयः ।
न वाञ्छन्ति स्वर्गं न च कमलसम्भूतभवनं
न वा मुक्तेर्मार्गं ननु कनकदुर्गे भगवति ॥ ४॥
शचीस्वाहादेवीप्रमुखहरिदीशानरमणी-
मणीहस्तन्यस्तैर्मणिखचितपात्रैरनुदिनम् ।
ससङ्गीतं नीराजितचरणपङ्केरुहयुगे
कृपापूरं मह्यं दिश कनकदुर्गे भगवति ॥ ५॥
प्रवर्षत्यश्रान्तं बहुगुणमभीष्टार्थनिचयं
स्वरूपध्यातॄणां चिकुरनिकुरुम्बं तव शिवे ।
अपामेकं वर्षं वितरति कदाचिज्जलधरो
द्वयोस्साम्यं किं स्यान्ननु कनकदुर्गे भगवति ॥ ६॥
कृशाङ्गं स्वारातिं तुहिनकरमावृत्य तरसा
स्थितं मन्ये धन्ये तिमिरनिकरं ते कचभरम् ।
सहायं कृत्वायं हरमनसि मोहान्धतमसं
वितेने कामः श्रीमति कनकदुर्गे भगवति ॥ ७॥
तमो नाम्ना सम्यग्गळितपुनरुद्वान्तरुचिर-
प्रभाशेषं भानोरिव तरुणिमानं धृतवतः ।
त्वदीये सीमन्ते कृतपदमिदं कुङ्कुमरजो-
वसेदश्रान्तं मे हृदि कनकदुर्गे भगवति ॥ ८॥
त्रिलोकी वैचित्रीजनकघनसौन्दर्यसदनं
विराजत्कस्तूरीतिलकमपि फाले विजयते ।
यदालोकव्रीडाकुपित इव जूटे पशुपते-
र्विलीनो बालेन्दुर्ननु कनकदुर्गे भगवति ॥ ९॥
पराभूतश्चेशाळिकनयनकीलाविलसना-
द्विसृज्य प्राचीनं भुवनविनुतं कार्मुकवरम् ।
हरं जेतुं त्वद्भ्रूच्छलमपरबाणासनयुगं
स्मरो धत्ते सर्वेश्वरि कनकदुर्गे भगवति ॥ १०॥
त्वदीयभ्रूवल्लीच्छलमदनकोदण्डयुगळी
समीपे विभ्राजत्तव सुविपुलं नेत्रयुगळम् ।
विजेतुं स्वारातिं विकचनवनीलोत्पलशर-
द्वयं तेनानीतं खलु कनकदुर्गे भगवति ॥ ११॥
दरिद्रं श्रीमन्तं जरठमबलानां प्रियतमं
जडं सङ्ख्यावन्तं समरचलितं शौर्यकलितम् ।
मनुष्यं कुर्वन्तोऽमरपरिवृढं नित्यसदयाः
कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ १२॥
पुरारातेर्बाणाः कुसुमशरतूणीरगळिता
नतानां सन्त्राणे निरवधिसुधावीचिनिचयाः ।
वियद्गङ्गाभङ्गा बहुदुरितजालावृतिमतां
कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ १३॥
दरिद्राणां कल्पद्रुमसुममरन्दोदकझरा
अविद्याध्वान्तानामरुणकिरणानां विहृतयः ।
पुरा पुण्यश्रेणीसुललितलताचैत्रसमयाः
कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ १४॥
गजन्तो वाहन्तः कनकमणिनिर्माणविलसा
रथन्तश्छत्रन्तो बलयुत भटन्तः प्रतिदिनम् ।
स्वभक्तानां गेहाङ्गणभुवि चरन्तो निरुपमाः
कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ १५॥
पुरारातेरङ्गं पुलकनिकुरम्बैः परिवृतं
मुनिव्रातैर्ध्यातं मुकुळयुतकल्पद्रुमनिभम् ।
श्रयन्तश्चानन्दं विचलदलिपोता इव चिरं
कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ १६॥
हरिब्रह्मेन्द्राद्यैः श्रुतिविदितगीर्वाणनिचयै-
र्वसिष्ठव्यासाद्यैरपि च परमब्रह्मऋषिभिः ।
समस्तैराशास्यास्सकलशुभदा यद्विहृतयः
कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ १७॥
विरिञ्चिर्यद्योगाद्विरचयति लोकान् प्रतिदिनं
विधत्ते लक्ष्मीशो विविधजगतां रक्षणविधिम् ।
ललाटाक्षो दक्षोऽभवदखिलसंहारकरणे
कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ १८॥
उरोभागे शम्भोर्विकचनवनीलोत्पलदळ-
स्रजं सङ्गृह्णन्तो मृगमदरसं फालफलके ।
शिरोऽग्रे गङ्गायां रविदुहितृसन्देहजनकाः
कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ १९॥
मदीयश्रीलीलाहरणपटुपाटच्चरमिति
क्वता हन्तागन्तुं श्रुतिविमलनीलोत्पलमिव ।
तदभ्यर्णं यातास्सहजनिजवैशाल्यकलिताः
कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ २०॥
कळङ्की मासान्ते वहति कृशतां नित्यजड इ-
त्यमुं चन्द्रं हित्वा तव वदनचन्द्राश्रितमिदम् ।
स्थितं जीवं जीवद्वितयमिति मन्ये नयनयो-
र्युगं कामारातेस्सति कनकदुर्गे भगवति ॥ २१॥
प्रसादो मय्यास्ते मयि च सहजं सौरभमिदं
तुला मे मैतस्येत्यविरतविवादाभिरतयोः ।
निवृत्ता नेदानीमपि च रिपुता ग्लौनळिनयो-
स्त्वदास्यं दृष्ट्वा श्रीमति कनकदुर्गे भगवति ॥ २२॥
मनोजातादर्शप्रतिमनिजलीलौ तव शिवे
कपोलौ भूयास्तां मम सकलकल्याणजनकौ ।
श्रितश्रीताटङ्कद्वितयरुचयो यत्र मिळिता-
स्सुधारुक्सूर्याभा इव कनकदुर्गे भगवति ॥ २३॥
त्रयी स्तुत्ये नित्ये तव वदनपङ्केरुहभव-
त्सुगन्धायातश्रीप्रचलदळिनीवारणधिया ।
लसन्नासाकारे वहसि सहसा चम्पकतुलां
न तत्सौन्दर्यार्थं ननु कनकदुर्गे भगवति ॥ २४॥
वहत्वं कारुण्यं वरकमलरागाह्वयमणि-
स्सुधापूरं सारं सुरुचिरमृदुत्वं यदि वहेत् ।
तदा लब्धुं योग्यो भवति भवदीयाधरतुलां
जगद्रक्षादीक्षावति कनकदुर्गे भगवति ॥ २५॥
लसन्नासाभूषाग्रगपृथुलमुक्तामणियुतं
नितान्तारुण्यन्तत्तव दशनवासो विजयते ।
सुधासिन्धोर्मध्ये निपतित सुधाबिन्दुसहित-
प्रवाळश्रीचोरं ननु कनकदुर्गे भगवति ॥ २६॥
अयोग्या इत्यार्ये तव दशनसाम्याय कविभि-
र्विमुक्ता मुक्ता इत्यधिकविदिता मौक्तिकगणाः ।
दशामल्पाङ्गत्वा तदनुमुखताम्बूलसहिता
गतास्तत्साहित्यं खलु कनकदुर्गे भगवति ॥ २७॥
जितोऽहं पार्वत्या मृदुलतरवाणीविलसनैः
कथं दृप्यस्यम्बाधरसमतया बिम्ब कथय ।
इति क्रोधाच्चञ्च्वा दळितवदने रक्तिमयुतः
शुकोऽयं विज्ञानी खलु कनकदुर्गे भगवति ॥ २८॥
फलं बिम्बस्येदं भवति भवदीयाधरतुला
कृताळं तन्माद्यं वहति मतिरस्येति विदिता ।
न चेत्तस्मिन् भुक्ते सुमति कवितानामपि नृणां
कथं स्यात्तन्माद्यं भुवि कनकदुर्गे भगवति ॥ २९॥
अतुल्यं ते कण्ठं हरतरुणि दृष्ट्वा सुकवयः
प्रभाषन्ते शङ्खं परिहसनपात्रं भवति तत् ।
स्वरूपध्यातॄणां स भवति निधिश्शङ्ख इतिचे-
दसन्देहं स्थाने खलु कनकदुर्गे भगवति ॥ ३०॥
आकण्ठं ते कण्ठस्थितकनकसूत्रं विजयते
हरो यत्सामर्थ्यादमृतमिव पीत्वापि गरळम् ।
समाख्यां विख्यातां समलभत मृत्युञ्जय इति
त्रयीवेद्यक्रीडावति कनकदुर्गे भगवति ॥ ३१॥
चिरं ध्यात्वा ध्यात्वा सकलविबुधाभीष्टनिचयं
ततस्त्वल्लावण्यामृतजलधिसम्प्राप्तजनने ।
भुजाकारेणैके भुवनविनुते कल्पकलते
श्रियै मे भूयास्तां ननु कनकदुर्गे भगवति ॥ ३२॥
विराजत्केयूरद्वयमणिविभाभानुकिरणै-
र्नितान्तव्याकोशीकृतमदनजिन्नेत्रकमलौ ।
विभोः कण्ठाश्लेषाद्विपुलपुलकाङ्कूरजनकौ
भुजौ मे त्रातारौ ननु कनकदुर्गे भगवति ॥ ३३॥
सुपर्वारामान्तःस्फुरितसहकारद्रुमलता-
समग्रश्रीजाग्रत्किसलयसगर्वोद्यमहरौ ।
करौ ते भूयास्तां मम शुभकरौ कान्तिनिकरा-
करौ निश्शङ्कं शाङ्करि कनकदुर्गे भगवति ॥ ३४॥
प्रशस्तौ त्रैलोक्ये बहुळदनुजत्रासविचल-
न्मरुन्मस्तन्यस्तौ जननि तव हस्तौ हृदि भजे ।
स्मरो यत्सङ्काशा इति किसलयानेव धृतवान्
त्रिलोकी जेताऽऽसीत्खलु कनकदुर्गे भगवति ॥ ३५॥
पुरारातेः पाणिग्रहणसमये मौक्तिकचयान्
विधातुं तच्छीर्षे जनकवचनादुन्नमितयोः ।
ययोरूपं दृष्ट्वाऽभवदुदितलज्जा सुरनदी
कदार्तित्रातारौ मम कनकदुर्गे भगवति ॥ ३६॥
स्फुरन्तो निश्शङ्कं पुरहरनिरातङ्कविजय-
क्रियायात्रोद्युक्तस्मरबिरुदपाठा इव भृशम् ।
झणत्कारारावाः कनकवलयानां तव शिवे
वितन्वन्तु श्रेयो मम कनकदुर्गे भगवति ॥ ३७॥
कुचौ ते रूपश्रीविजितलकुचौ मे शुभकरौ
भवेतां व्याकीर्णौ प्रकटतरमुक्तामणिरुचौ ।
विरिञ्चाद्या देवा यदुदितसुधापातुरनिशं
सुनम्रास्सेनान्यो ननु कनकदुर्गे भगवति ॥ ३८॥
अतुल्यं ते मध्यं वदति हरिमध्येन सदृशं
जगत्तन्नो युक्तं जननि खलु तद्रूपकलने ।
कृताशः पञ्चास्यो भवति तव वाहः प्रतिदिनं
जगत्सर्गक्रीडावति कनकदुर्गे भगवति ॥ ३९॥
असौ पुन्नागस्य प्रसवमृदुशाखाश्चलगतं
तपःकृत्वा लेभे जननि तव नाभेः सदृशताम् ।
प्रमत्तः पुन्नागप्रसव इतरस्तावक गते-
स्तुलामाप्तुं वाञ्छत्यपि कनकदुर्गे भगवति ॥ ४०॥
त्रिलोकीवासाञ्चद्युवतिजनतादुर्गमभव-
न्नितम्बश्रीचौर्यं कृतवदिति सञ्चित्य पुलिनम् ।
सरो बाह्यञ्चक्रे जननि भवदीयस्मरणतो
झरेवाधीरैशा जननि कनकदुर्गे भगवति ॥ ४१॥
जितोऽहं पार्वत्या मृदुतरगतीनां विलसनैः
तदूर्वोस्सौन्दर्यं सहजमधिगन्तुं जडतया ।
कृतारम्भा रम्भा इति विदळिताऽऽसां वनमयं
करी सामर्षः श्रीकरि कनकदुर्गे भगवति ॥ ४२॥
प्रविष्टा ते नाभीबिलमसितरोमावळिरियं
कटीचञ्चत्काञ्चीगुणविहितसौत्रामणमणेः ।
रुचां रेखेवास्ते रुचिरतरमूर्ध्वायनगता
श्रितश्रेणीसम्पत्करि कनकदुर्गे भगवति ॥ ४३॥
अनिर्वाच्यं जङ्घारुचिररुचिसौन्दर्यविभवं
कथं प्राप्तुं योग्यस्तव कलमगर्भो गिरिसुते ।
तदीयं सौभाग्यं कणिशजननैकावधि सुधी-
जनैश्चिन्ताकार्या ननु कनकदुर्गे भगवति ॥ ४४॥
सदा मे भूयात्ते प्रपदममिताभीष्टसुखदं
सुरस्त्रीफालाग्रच्युतमृगमदानां समुदयम् ।
अशेषं निर्धौतः प्रणयकलहे यत्र पुरजि-
ज्जटा गङ्गानीरैर्ननु कनकदुर्गे भगवति ॥ ४५॥
मनोज्ञाकारं ते मधुरनिनदं नूपुरयुगं
ग्रहीतुं विख्यातान् गतिविलसनानामतिरयान् ।
स्थितम्मन्ये हंसद्वयमिति न चेद्धंसकपदं
कथं धत्ते नाम्ना ननु कनकदुर्गे भगवति ॥ ४६॥
त्वदीयं पादाब्जद्वयमचलकन्ये विजयते
सुरस्त्रीकस्तूरीतिलकनिकरात्यन्तसुरभि ।
भ्रमन्तो यत्रार्याप्रकरहृदयेन्दिन्दिरगणा-
स्सदा माद्यन्ति श्रीमति कनकदुर्गे भगवति ॥ ४७॥
अपर्णे ते पादावतनुतनुलावण्यसरसी
समुद्भूते पद्मे इति सुकविभिर्निश्चितमिदम् ।
न चेद्गीर्वाणस्त्रीसमुदयललाटभ्रमरकाः
कथं तत्रासक्ता ननु कनकदुर्गे भगवति ॥ ४८॥
रमावाणीन्द्राणीमुखयुवतिसीमन्तपदवी-
नवीनार्कच्छायासदृशरुचि यत्कुङ्कुमरजः ।
स्वकाङ्गाकारेण स्थितमिति भवत्पादकमल-
द्वये मन्ये शम्भोस्सति कनकदुर्गे भगवति ॥ ४९॥
दवाग्निं नीहारं गरळममृतं वार्धिमवनी-
स्थलं मृत्युम्मित्रं रिपुमपि च सेवाकरजनम् ।
विशङ्कं कुर्वन्तो जननि तव पादाम्बुरुहयोः
प्रणामास्संस्तुत्या मम कनकदुर्गे भगवति ॥ ५०॥
जलप्राया विद्या हृदि सकलकामाः करगताः
महालक्ष्मीर्दासी मनुजपतिवर्यास्सहचराः ।
भवत्यश्रान्तं ते पदकमलयोर्भक्तिसहितां
नतिङ्कुर्वाणानां ननु कनकदुर्गे भगवति ॥ ५१॥
तव श्रीमत्पादद्वितयगतमञ्जीरविलस-
न्मणिच्छायाच्छन्नाकृतिभवतियत्फालफलकम् ।
स तत्रैवाशेषावनिवहनदीक्षासमुचितं
वहेत्पट्टं हैमं ननु कनकदुर्गे भगवति ॥ ५२॥
तनोतु क्षेमं त्वच्चरणनखचन्द्रावळिरियं
भवत्प्राणेशस्य प्रणयकलहारम्भसमये ।
यदीयज्योत्स्नाभिर्भवति नितरां पूरिततनु-
श्शिरोऽग्रे बालेन्दुर्ननु कनकदुर्गे भगवति ॥ ५३॥
समस्ताशाधीशप्रवरवनिताहस्तकमलै-
स्सुमैः कल्पद्रूणां निरतकृतपूजौ निरुपमौ ।
नतानामिष्टार्थप्रकरघटनापाटवयुतौ
नमस्यामः पादौ तव कनकदुर्गे भगवति ॥ ५४॥
पुरा बाल्ये शीताचलपरिसरक्षोणिचरणे
ययोस्स्पर्शं लब्ध्वा मुदितमनसः कीटनिचयान् ।
विलोक्य श्लाघन्ते विबुधसमुदायाः प्रतिदिनं
नमामस्तौ पादौ ननु कनकदुर्गे भगवति ॥ ५५॥
नराणामज्ञानां प्रशमयितुमन्तःस्थतिमिरा-
ण्यलक्ष्मीसन्तापं गमितमनुजान् शीतलयितुम् ।
समर्थान्निर्दोषांश्चरणनखचन्द्रानभिनवान्
नमामस्सद्भक्त्या तव कनकदुर्गे भगवति ॥ ५६॥
मुकुन्दब्रह्मेन्द्रप्रमुखबहुबर्हिर्मुखशिखा-
विभूषाविभ्राजन्मघवमणिसन्दर्भरुचिभिः ।
विशङ्कं साकं त्वच्चरणनखचन्द्रेषुघटितं
कवीन्द्रैः स्तोतव्यं तव कनकदुर्गे भगवति ॥ ५७॥
नखानां धावळ्यं निजमरुणिमानञ्च सहजं
नमद्गीर्वाणस्त्रीतिलकमृगनाभिश्रियमपि ।
वहन्तौ सत्त्वादित्रिगुणरुचिसारानिव सदा
नमस्यामः पादौ तव कनकदुर्गे भगवति ॥ ५८॥
मणिश्रेणीभास्वत्कनकमयमञ्जीरयुगळी-
झणत्कारारावच्छलमधुरवाचां विलसनैः ।
अभीष्टार्थान् दातुं विनतजनताह्वानचतुरा-
विव ख्यातौ पादौ तव कनकदुर्गे भगवति ॥ ५९॥
नमद्गीर्वाणस्त्रीतिलकमृगनाभीद्रवयुतं
नखच्छायायुक्तं जननि तव पादाम्बु जयति ।
समञ्चत्काळिन्दीझरसलिलसम्म्मिश्रितविय-
न्नदीवारीव श्रीकरि कनकदुर्गे भगवति ॥ ६०॥
सुरश्रेणीपाणिद्वितयगतमाणिक्यकलशै-
र्धृतं हेमाम्भोजप्रकरमकरन्देन मिळितम् ।
सतां वृन्दैर्वन्द्यं चरणयुगसङ्क्षाळनजलं
पुनात्वस्मान्नित्यं तव कनकदुर्गे भगवति ॥ ६१॥
विरावन्मञ्जीरद्वयनिहितहीरोपलरुचि-
प्रसादे निर्भेदं प्रथितपरमब्रह्मऋषिभिः ।
शिरोभागैर्धार्यं पदकमलनिर्णेजनजलं
वसन्मे शीर्षाग्रे तव कनकदुर्गे भगवति ॥ ६२॥
समीपे माणिक्यस्थगितपदपीठस्य नमतां
शिरस्सु त्वत्पादस्नपनसलिलं यन्निपतति ।
तदेवोच्चस्थानस्थितिकृदभिषेकाम्बु भवति
प्रभावोऽयं वर्ण्यस्तव कनकदुर्गे भगवति ॥ ६३॥
नृणान्दीनानां त्वच्चरणकमलैकाश्रयवतां
महालक्ष्मीप्राप्तिर्भवति न हि चित्रास्पदमिदम् ।
समाश्रित्याम्भोजं जडमपि च रेखाकृतिधरं
श्रियो नित्यं धामाजनि कनकदुर्गे भगवति ॥ ६४॥
खगोत्तंसा हंसास्तव गतिविलासेन विजिता-
स्सलज्जास्तत्तुल्यं गमनमधिगन्तुं सकुतुकाः ।
भजन्ते स्रष्टारं रथवहन एवैकनिरता
मनोजातारातेस्सति कनकदुर्गे भगवति ॥ ६५॥
जगन्मातर्भव्याङ्गुळिविवरमार्गेषु गळितं
चतुर्धा ते पादाम्बुजसलिलमेतद्विजयते ।
प्रदातुं धर्मार्थप्रमुखपुरुषार्थद्वययुगं
चतुर्मूर्त्या विद्धाविव कनकदुर्गे भगवति ॥ ६६॥
अजोऽयं श्रीशोऽयं सुरपरिवृढोऽयं रविरयं
शशाङ्कोऽयं कोऽयं सकलजलधीनां पतिरयम् ।
इति त्वां सन्द्रष्टुं समुपगतदेवाः परिचरै-
र्जनैर्विज्ञाप्यन्ते खलु कनकदुर्गे भगवति ॥ ६७॥
महापीठासीनां मघवमुखबर्हिर्मुखसखी-
निकायैस्संसेव्यां करतलचलच्चामरयुतैः ।
प्रदोषे पश्यन्तीं पशुपतिमहाताण्डवकलां
भजे त्वां श्रीमाहेश्वरि कनकदुर्गे भगवति ॥ ६८॥
परञ्ज्योतिस्तज्ज्ञास्सुरतरुलतां दुर्गतजना
महाज्वालामग्नेर्भुवनभयदा राक्षसगणाः ।
ललाटाक्षस्साक्षादतनुजयलक्ष्मीमविरतं
हृदि ध्यायन्ति त्वां कनकदुर्गे भगवति ॥ ६९॥
समुद्यद्बालार्कायुतशतसमानद्युतिमतीं
शरद्राकाचन्द्रप्रतिमदरहासाञ्चितमुखीम् ।
सखीं कामारातेश्चकितहरिणीशाबनयनां
सदाहं सेवे त्वां हृदि कनकदुर्गे भगवति ॥ ७०॥
तपःकृत्वा लेभे त्रिपुरमथनस्त्वां प्रियसखीं
तपस्यन्ती प्राप्ता त्वमपि गिरिशं प्राणदयितम् ।
तदेवं दाम्पत्यं जयति युवयोर्भीतधवयोः
कविस्तुत्यं नित्यं ननु कनकदुर्गे भगवति ॥ ७१॥
विभोर्जानासि त्वं विपुलमहिमानं पशुपते-
स्स एव ज्ञाता ते चरितजलराशेरनवधेः ।
न हि ज्ञातुन्दक्षो भवति भवतोस्तत्वमितर-
स्त्रीलोकीसन्धानेष्वपि कनकदुर्गे भगवति ॥ ७२॥
न विष्णुर्नब्रह्मा न च सुरपतिर्नापि सविता
न चन्द्रो नोवायुर्विलसति हि कल्पान्तसमये ।
तदा नाट्यङ्कुर्वंस्तव रमण एको विजयते
त्वया साकं लोकेश्वरि कनकदुर्गे भगवति ॥ ७३॥
धनुश्चक्रे मेरुं गुणमुरगराजं शितशरं
रमाधीशञ्चापि त्रिपुरमथनेन त्रिनयनः ।
तदेतत्सामर्थ्यं सहजनिजशक्तेस्तव शिवे
जगद्रक्षादीक्षावति कनकदुर्गे भगवति ॥ ७४॥
त्रिकोणान्तर्बिन्दूपरिविलसनात्यन्तरसिकां
त्रिभिर्वेदैः स्तुत्यां त्रिगुणमयमूर्तित्रययुताम् ।
त्रिलोकैराराध्यां त्रिनयनमनःप्रेमजननीं
त्रिकालं सेवे त्वां हृदि कनकदुर्गे भगवति ॥ ७५॥
मनो ध्यातुं नालं जननि तव मूर्तिं निरुपमां
वचो वक्तुं शक्यं न भवति हि ते चित्रचरितम् ।
तनुस्त्वत्सेवायां भवति विवशा दीनसमये
कथं वाहं रक्ष्यस्तव कनकदुर्गे भगवति ॥ ७६॥
वियोगं ते नूनं क्षणमसहमानः पशुपति-
र्ददौ ते देहार्धं तरुणसुमबाणायुतसमम् ।
अनेन ज्ञातव्यस्तव जननि सौन्दर्यमहिमा
त्रिलोकी स्तोतव्यः खलु कनकदुर्गे भगवति ॥ ७७॥
कृता यागा येन श्रुतिषु विदिताः पूर्वजनने
धनं दत्तं येन द्विजकुलवरेभ्यो बहुविधम् ।
तपस्तप्तं येनास्खलितमतिना तस्य घटते
भवद्भक्तिश्शम्भोस्सति कनकदुर्गे भगवति ॥ ७८॥
भवन्मूर्तिध्यानप्रवणममलञ्चापि हृदयं
भवन्नामश्रेणीपठननिपुणां चापि रसनाम् ।
भवत्सेवादार्ढ्यप्रथितमपि कायं वितर मे
भवानन्दश्रेयस्करि कनकदुर्गे भगवति ॥ ७९॥
प्रभाषन्ते वेदाश्चकितचकितं तावकगुणान्
न पारस्य द्रष्टा तव महिमवार्धेर्विधिरपि ।
भवत्तत्वं ज्ञातुं प्रकृतिचपलानामपि नृणां
कथं वा शक्तिस्स्यान्ननु कनकदुर्गे भगवति ॥ ८०॥
नृपा एकच्छत्रं सकलधरणीपालनपरा-
स्सुधामाधुर्यश्रीललितकविताकल्पनचणाः ।
निरातङ्कं शास्त्राध्ययनमनसां नित्यकविता
त्वदीया ज्ञेया श्रीमति कनकदुर्गे भगवति ॥ ८१॥
कदम्बानां नागाधिकचतुरसञ्चारिभसरी
कदम्बानां मध्ये खचरतरुणीकोटिकलिते ।
स्थितां वीणाहस्तां त्रिपुरमथनानन्दजननीं
सदाहं सेवे त्वां हृदि कनकदुर्गे भगवति ॥ ८२॥
गिरां देवी भूत्वा विहरसि चतुर्वक्त्रवदने
महालक्ष्मीरूपा मधुमथनवक्षस्थलगता ।
शिवाकारेण त्वं शिवतनुनिवासं कृतवती
कथं ज्ञेया माया तव कनकदुर्गे भगवति ॥ ८३॥
महाराज्यप्राप्तावतिशयितकौतूहलवतां
सुधामाधुर्योद्यत्सरसकविता कौतुकयुजाम् ।
कृताशानां शश्वत्सुखजनकगीर्वाणभजने
त्वमेवैका सेव्या ननु कनकदुर्गे भगवति ॥ ८४॥
फणी मुक्ताहारो भवति भसितं चन्दनरजो
गिरीन्द्रः प्रासादो गरळममृतं चर्म सुपटः ।
शिवे शम्भोर्यद्यद्विकृतचरितं तत्तदखिलं
शुभञ्जातं योगात्तव कनकदुर्गे भगवति ॥ ८५॥
दरिद्रे वा क्षुद्रे गिरिवरसुते यत्र मनुजे
सुधापूराधारस्तव शुभकटाक्षो निपतति ।
बहिर्द्वारप्रान्तद्विरदमदगन्धस्स भवति
प्रिये कामारातेर्ननु कनकदुर्गे भगवति ॥ ८६॥
प्रभाषन्ते वेदाः प्रकटयति पौराणिकवचः
प्रशस्तं कुर्वन्ति प्रथितबहुशास्त्राण्यविरतम् ।
स्तुवन्तः प्रत्यग्रं सुकविनिचयाः काव्यरचनै-
रनन्तां ते कीर्तिं ननु कनकदुर्गे भगवति ॥ ८७॥
असूयेर्ष्यादम्भाद्यवगुणपरित्यागचतुरा-
स्सदाचारासक्तास्सदयहृदयास्सत्यवचनाः ।
जितस्वान्ताश्शान्ता विमलचरिता दाननिरताः
कृपापात्रीभूतास्तव कनकदुर्गे भगवति ॥ ८८॥
यदीयाम्भस्नानाद्दुरितचरितानां समुदया
महापुण्यायन्ते महिमवति तस्याश्शुभकरे ।
तटे कृष्णानद्या विहितमहितानन्दवसते
कृपा कर्तव्या ते मयि कनकदुर्गे भगवति ॥ ८९॥
यथा पुष्पश्रेणीविलसितकदम्बद्रुमवने
तनोर्भागे नागेश्वरवलयिनः श्रीमति यथा ।
तथा भक्तौघानां हृदि कृतविहारे गिरिसुते
दया कर्तव्या ते मयि कनकदुर्गे भगवति ॥ ९०॥
समारुह्याभङ्गं मृगपतितुरङ्गं जनयुतं
गळाग्रे धूम्राक्षप्रमुखबलबर्हिर्मुखरिपून् ।
निहत्य प्रत्यक्षं जगदवनलीलां कृतवती
प्रसन्ना भूयास्त्वं मयि कनकदुर्गे भगवति ॥ ९१॥
पराभूय त्र्यक्षं सवनकरणे यत्रसहितं
दुरात्मानं दक्षं पितरमपि सन्त्यज्य तरसा ।
गृहे नीहाराद्रेर्निजजननमङ्गीकृतवती
प्रसन्ना भूयास्त्वं मयि कनकदुर्गे भगवति ॥ ९२॥
तपः कृत्वा यस्मिन् सुरपतिसुतोऽनन्यसुलभं
भवादस्त्रं लेभे प्रबलरिपुसंहारकरणम् ।
किरातेऽस्मिन् प्रीत्या सहविहरणे कौतुकवती
प्रसन्ना भूयास्त्वं मयि कनकदुर्गे भगवति ॥ ९३॥
शरच्चन्द्रालोकप्रतिमरुचिमन्दस्मितयुते
सुरश्रीसङ्गीतश्रवणकुतुकालङ्कृतमते ।
कृपापात्रीभूतप्रणमदमराभ्यर्चितपदे
प्रसन्ना भूयास्त्वं मयि कनकदुर्गे भगवति ॥ ९४॥
कपालस्रग्धारी कठिनगजचर्माम्बरधरः
स्मरद्वेषी शम्भुर्बहुभवनभिक्षाटनपरः ।
अविज्ञातोत्पत्तिर्जननि तव पाणिग्रहणतो
जगत्सेव्यो जातः खलु कनकदुर्गे भगवति ॥ ९५॥
पदाभ्यां प्रत्यूषस्फुटविकचशोणाब्जविलसत्-
प्रभाभ्यां भक्तानामभयवरदाभ्यां तव शिवे ।
चरद्भ्यां नीहाराचलपदशिलाभङ्गसरणौ
नमः कुर्मः कामेश्वरि कनकदुर्गे भगवति ॥ ९६॥
मदीये हृत्पद्मे निवसतु पदाम्भोजयुगळं
जगद्वन्द्यं रेखाध्वजकुलिशवज्राङ्कितमिदम् ।
स्फुरत्कान्तिज्योत्स्ना विततमणिमञ्जीरमहितं
दयाऽऽधेयाऽमेया मयि कनकदुर्गे भगवति ॥ ९७॥
सदाऽहं सेवे त्वत्पदकमलपीठीपरिसरे
स्तुवन् भक्तिश्रद्धापरिचयपवित्रीकृतधिया ।
भवन्तीं कल्याणीं प्रचुरतरकल्याणचरितां
दयाऽऽधेयाऽमेया मयि कनकदुर्गे भगवति ॥ ९८॥
हरश्शूली चैकः पितृवननिवासी पशुपति-
र्दिशावासो हालाहलकबळनव्यग्रधृतिमान् ।
गिरीशोऽभूदेवंविधगुणचरित्रोऽपि हि भवत्
सुसाङ्गत्यात् श्लाघ्यो ननु कनकदुर्गे भगवति ॥ ९९॥
समस्ताशाधीश प्रमुख सुरवर्यैः प्रणमिता-
महर्नाथज्वालापतिहरणपाली त्रिनयनाम् ।
सदा ध्यायेऽहं त्वां सकलविबुधाभीष्टकलने
रतां तां कल्याणीं हृदि कनकदुर्गे भगवति ॥ १००॥
सुसन्तोषं यो वा जपति नियमादूहितशत-
ज्वलद्वृत्तैश्श्राव्यां निशि कनकदुर्गास्तुतिमिमाम् ।
महालक्ष्मीपात्रं भवति सदनं तस्य वदनं
गिरां देवीपात्रं कुलमपि विधेः कल्पशतकम् ॥ १०१॥
स्तुतिं दुर्गादेव्यास्सततमघसंहारकरणे
सुशक्तां वा लोके पठति सुधिया बुद्धिकुशलः ।
श्रियं मातः तस्मै वितरसि सुतानाञ्च जगतां
पतित्वं वाग्मित्वं बहु कनकदुर्गे भगवति ॥ १०२॥
शतश्लोकीबद्धं ननु कनकदुर्गाङ्कितपदं
गुरूपन्यस्तं तद्भुवि कनकदुर्गास्तवमिदम् ।
निबद्धं माणिक्यैः कनकशतमानं भवति ते
यथा हृद्यं देवि स्फुटपदविभक्तं विजयताम् ॥ १०३॥
इति श्रीमत्परमहंस परिव्राजकाचार्यवर्य श्रीविद्याशङ्करामार्य-
विरचितं श्रीमत्कनकदुर्गाऽऽनन्दलहरीस्तोत्रं सम्पूर्णम् ।
- sanskritश्रीदुर्गाम्बास्तोत्रम्
- sanskritश्री कालिका अर्गल स्तोत्रम्
- sanskritश्री कालिका कीलक स्तोत्रम्
- sanskritश्री जगद्धात्री स्तोत्रम्
- malayalamആപദുന്മൂലന ദുർഗാ സ്തോത്രം
- teluguఆపదున్మూలన దుర్గా స్తోత్రం
- tamilஆபதுன்மூலன துர்கா ஸ்தோத்திரம்
- kannadaಆಪದುನ್ಮೂಲನ ದುರ್ಗಾ ಸ್ತೋತ್ರ
- hindiआपदुन्मूलन दुर्गा स्तोत्र
- malayalamദുർഗാ ശരണാഗതി സ്തോത്രം
- teluguదుర్గా శరణాగతి స్తోత్రం
- tamilதுர்கா சரணாகதி ஸ்தோத்திரம்
- hindiदुर्गा शरणागति स्तोत्र
- malayalamദുർഗാ പഞ്ചരത്ന സ്തോത്രം
- teluguదుర్గా పంచరత్న స్తోత్రం
Found a Mistake or Error? Report it Now