Download HinduNidhi App
Durga Ji

श्री शान्तादुर्गा देविप्रणति स्तोत्रं

Shantadurga Stotram Sanskrit

Durga JiStotram (स्तोत्र निधि)संस्कृत
Share This

॥ श्रीशान्तादुर्गादेविप्रणतिस्तोत्रं ॥

श्रीशान्तादुर्गा महामाये कैवल्यपुरवासिने ।
नमो भर्गेमहाकाली महिषासुरमर्दिने ॥

नमो गौरी जगन्माते रत्नमालाविभूषिते ।
नमो भवानि रुद्राणि विश्वरूपे सुकंधरे ॥

नमस्ते भगवान्माये जगद्रक्षणकारिणे ।
नमोऽस्तु पतितोद्धारे नानारूपधरे नमः ॥

नमो दाक्षायणी देवी भक्तारिष्टनिवारके ।
नमस्ते गिरिजे हेमी शिवरूपे महेश्वरी ॥

नमः कात्यायनी आर्ये अपर्णे सस्मितानने ।
नमः खड्गधरे माये दशाष्टकरधारिणे ॥

षड्गुणैश्वर्यसम्पन्ने नमः सुन्दररूपिणे ।
नवयौवनसंयुक्ते शाम्भवी शङ्करप्रिये ॥

गणनाथाम्बिके भर्गे कार्तविर्योद्भवे शिवे ।
कामारि‍इश-अर्धांगे भवरोगादिनाशिने ॥

नमः कौमार्यसम्पन्ने नीलकण्ठप्रिये नमः ।
निशाचरकुलध्वंसे भक्तकल्पलते नमः ॥

अर्कपुष्पप्रिये चण्डि ललितादेविरूपिणे ।
सहस्रशिरसे गौरी मोहिनी सुरपालके ॥

अहिंसाप्रियसंशुद्धे हिंसाकर्मनिवारके ।
वेदरूपिणी शास्त्राङ्गे शाक्तपाखाण्डदण्डके ॥

चद्रानने चारुगात्रे सिंहासनसुशोभिते ।
भद्रकाली विरूपाक्षे पातालपुरवासिने ॥

नमो दिव्ये महादेवी वाग्वरदे विलासिनी ।
विश्वात्मके विश्ववन्द्ये नानाभरणभूषिते ॥

जगदम्ब जगदम्ब गौडकुलप्रपालके ।
सारस्वतेऽस्मि त्वत्पुत्र नमामि पदपकञ्जे ॥

क्षमस्व अपराधोऽस्मि हीनदीनोऽस्मि अम्बिके ।
महामूढ महापापी महदज्ञानि पामर ॥

अतिक्रोधि सुदुष्टोऽस्मि महाचाण्डाळ पातकी ।
अघोररूपी कामोऽस्मि क्षमस्व जगदम्बिके ॥

श्रीशान्तादुर्गाचरणार्पणमस्तु

इति श्रीशान्तादुर्गादेविप्रणतिस्तोत्रं सम्पूर्णम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री शान्तादुर्गा देविप्रणति स्तोत्रं PDF

श्री शान्तादुर्गा देविप्रणति स्तोत्रं PDF

Leave a Comment