Misc

श्रीत्यागब्रह्मगुर्वष्टकम्

Tyagabrahmagurvashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीत्यागब्रह्मगुर्वष्टकम् ||


। श्रीरामजयम् ।
। ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
अथ गुर्वष्टकम् ।
गुरुरामसुभक्त्युतगाननिधिः गुरुसन्त्यजनायुतनामनिधिः ।
गुरुतेजजितायुतभासनिधिः गुरुरेवमदाश्रयतत्त्वनिधिः ॥ १॥

गुरुगद्यसुपद्यनुताशुकविः गुरुनामसुकीर्तनदिव्यसरिः ।
गुरुसत्कृतिकीर्तननव्यरुचिः गुरुरेवमदाश्रयसत्त्वनिधिः ॥ २॥

गुरुवाणिसुकीर्तनमिष्टवचः गुरुसुस्वरहृद्गतनामजपः ।
गुरुतथ्यनुतप्रभुभक्तिशयः गुरुरेवमदाश्रयतथ्यनिधिः ॥ ३॥

गुरुपञ्चनदप्रियगीतसुखी गुरुवाञ्छितसर्वदरामसुधीः ।
गुरुलाञ्छितलाघवकाव्यरसी गुरुरेवमदाश्रयनित्यनिधिः ॥ ४॥

गुरुगेयसुशिल्पितरामहरिः गुरुकीर्तनमन्दिरपूजितसः ।
गुरुनादलयालयभासुरसः गुरुरेवमदाश्रयनादनिधिः ॥ ५॥

गुरुपामरदूरसुनादहिमः गुरुपामरबोधनसत्कृतिदः ।
गुरुमानसपावननामसुगः गुरुरेवमदाश्रयबोधनिधिः ॥ ६॥

गुरुपावनगीःसुरनद्यसुखः गुरुपावनगानसुवर्गसुखः ।
गुरुजन्मनिवारणनैत्यसुखः गुरुरेवमदाश्रयरामनिधिः ॥ ७॥

गुरुरागविराजसुराजवरः गुरुरामसुपूजनगानवरः ।
गुरुभक्तिसमर्पितपुष्पपदः गुरुरेवमदाश्रयमङ्गलधिः ॥ ८॥


शुभमस्तु ।

Found a Mistake or Error? Report it Now

Download श्रीत्यागब्रह्मगुर्वष्टकम् PDF

श्रीत्यागब्रह्मगुर्वष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App