Shri Vishnu

अम्बरीषकतं विष्णुस्तोत्रम्

Ambarishakatamvishnustotram Sanskrit Lyrics

Shri VishnuStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| अम्बरीषकतं विष्णुस्तोत्रम् ||

अम्बरीष उवाच ।
प्रसीद देव सर्वात्मन्नसङ्ख्येयशिरोभुज ।
असङ्ख्यघ्राणनयनपाणिपाद नमोऽस्तु ते ॥ ३७॥

षट्त्रिंशत्तत्त्वातीतोऽसि निष्प्रपञ्च प्रपञ्चकः ।
चतुर्विधजगद्धाम विश्वमूर्ते नमोऽस्तु ते ॥ ३८॥

एकपादस्त्रिपादश्च तीर्थपादोंऽतरिक्षपात् ।
यस्य पादोद्भवा गङ्गा पुनाति भुवनत्रयम् ॥ ३९॥

ब्रह्महत्यादिपापानां शोधकं यस्य नाम वै ।
कीर्तितं सर्वशुभदं नमस्तस्मै शुभात्मने ॥ २.५.४०॥

देव त्वन्नामकीर्त्यापि जायन्ते सर्वसिद्धयः ।
कौतुकात्त्वां हि मृग्यन्ति विद्वांसो बुद्धिशालिनः ॥ ४१॥

नाथ त्वत्पादसलिलं संश्रयात्तापहारकम् ।
तापत्रयाभिभूतस्य भक्तिं मेऽत्र दृढां कुरु ॥ ४२॥

अनन्यस्वामिनो मेऽद्य नास्त्यन्यत्प्रार्थनीयकम् ।
प्रणिपत्य जगन्नाथ त्वां प्रयाचे सहस्रधा ॥ ४३॥

समस्तपुरुषार्थस्य बीजं त्वत्पादपङ्कजे ।
यावत्प्राणान्धारयामि तावद्भक्तिर्दृढास्तु मे ॥ ४४॥

सृष्टिं विनिर्ममे चेमां यया भक्त्या पितामहः ।
संहरत्यखिलं रुद्रो लक्ष्मीश्चैश्वर्यदायिनी ॥ ४५॥

दीनानुकम्पिंस्तां भक्तिं प्रार्थये नान्यमानसः ।
अनाद्यविद्यापङ्केऽस्मिन्सुदृढे दुस्तरं भृशम् ॥ ४६॥

निमग्नस्य जगन्नाथ निरालम्बं प्रणश्यतः ।
महामहिम्नस्त्वद्भक्तेर्नान्यदस्ति परायणम् ॥ ४७॥

श्रुतिस्मृत्यादिसम्भिन्नमार्गाः सम्मोहहेतवः ।
त्वद्भक्तिमपहायेते न प्रवर्त्तितुमीश्वराः ॥ ४८॥

अनन्यशरणं स्वामिन्ननुकम्पय मां विभो ।
इति स्तुवञ्जगन्नाथपादपद्मान्तिके मुदा ॥ ४९॥

पपात दण्डवद्भूमौ प्रसीदेति वदन्मुहुः ॥

इति श्रीस्कन्दपुराणे वैष्णवखण्डे पुरुषोत्तमजगन्नाथमाहात्म्ये
पञ्चमाध्यायान्तर्गतं अम्बरीषकृतं विष्णुस्तोत्रं समाप्तम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download अम्बरीषकतं विष्णुस्तोत्रम् PDF

अम्बरीषकतं विष्णुस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App