॥श्री सुब्रह्मण्य अष्टकम॥
नमॊऽस्तु बृन्दारकबृन्दवन्द्य-
पादारविन्दाय सुधाकराय ।
षडाननायामितविक्रमाय
गौरीहृदानन्दसमुद्भवाय ॥
नमॊऽस्तु तुभ्यं प्रणतार्तिहन्त्रॆ
कर्त्रॆ समस्तस्य मनॊरथानाम् ।
दात्रॆ रतानां परतारकस्य
हन्त्रॆ प्रचण्डासुरतारकस्य ॥
अमूर्तमूर्तायसहस्रमूर्तयॆ
गुणायगुण्यायपरात्पराय ।
अपारपाराय परात्पराय
नमॊऽस्तु तुभ्यं शिखिवाहनाय ॥
नमॊऽस्तु तॆ ब्रह्मविदांवराय
दिगंबरायाम्बरसंस्थिताय ।
हिरण्यवर्णाय हिरण्यबाहवॆ
नमॊ हिरण्याय हिरण्यरॆतसॆ ॥
तपःस्वरूपाय तपॊधनाय
तपः फलानां प्रतिपादकाय ।
सदा कुमाराय हिमारमारिणॆ
तृणीकृतैश्वर्यविरागिणॆ नमः ॥
नमॊऽस्तु तुभ्यं शरजन्मनॆ विभॊ
प्रभातसूर्यारुण दन्तपङ्क्तयॆ ।
बालाय चाबालपराक्रमाय
षण्मातुराबालमनातुराय ॥
मीढुष्टमायॊत्तरमीढुषॆ नमॊ
नमॊ गणानांपतयॆ गणाय ।
नमॊऽस्तु तॆ जन्मजरातिगाय
नमॊ विशाखाय सुशक्तिपाणयॆ ॥
सर्वस्यनाथस्य कुमारकाय
क्रौञ्चारयॆ तारकमारकाय ।
स्वाहॆय गांगॆय च कार्तिकॆय
शैलॆय तुभ्यं सततं नमॊऽस्तु ॥
Found a Mistake or Error? Report it Now