|| श्री दत्तात्रेय हृदयम् ||
प्रह्लाद एकदारण्यं पर्यटन्मृगयामिषात् ।
भाग्याद्ददर्श सह्याद्रौ कावेर्यां निद्रिता भुवि ॥
कर्माद्यैर्वर्णलिङ्गाद्यैरप्रतक्र्यं रजस्वलम् ।
नत्वा प्राहावधूतं तं निगूढामलतेजसम् ॥
कथं भोगीव धत्तेऽस्वः पीनां तनुमनुद्यमः ।
उद्योगात्स्वं ततो भोगो भोगात्पीना तनुर्भवेत् ॥
शयानोऽनुद्यमोऽनीहो भवानिह तथाप्यसौ ।
पीना तनुं कथं सिद्धो भवान्वदतु चेत्क्षमम् ॥
विद्वान्दक्षोऽपि चतुरश्चित्रप्रियकथो भवान् ।
दृष्ट्वापीह जनांश्चित्रकर्मणो वर्तते समः ॥
इत्थं श्रीभगवांस्तेन प्रह्यादेनात्रिनन्दनः ।
सम्पृष्टः प्राह सन्तुष्टः कृपालुः प्रहसन्निव ॥
श्रीनृसिंहोऽवतीर्णोऽत्र यदर्थं स त्वमेव हि ।
दैत्यजोऽपि मुनिच्छात्र शृणु भागवतोत्तम ॥
मन्दः स्वज्ञो भ्रमंस्तृष्णानद्येमं लोकमागतः ।
कर्मयोगेन मुक्तिस्वर्मोहद्वारं यदृच्छया ॥
निवृत्तोऽस्म्यत्र यततां व्यत्ययं वीक्ष्य शर्मणे ।
आत्मनोऽस्य सुखं रूपं क्लिष्टे नष्टे स्वयं प्रभम् ॥
ज्ञात्वा संस्पर्शजान्भोगान्दुःखात्स्वप्स्यामि दैवभुक् ।
विस्मृत्यामुं जनः स्वार्थं सन्तं यात्युग्रसंसृतिम् ॥
स्वार्थं मायावृतं त्यक्त्वा तदर्थ्यन्यत्र धावति ।
शैवालछन्नकं त्यक्त्वा यथाम्ब्वर्थी मरीचिकाम् ॥
अभाग्यस्य क्रिया मोघाः सुखप्राप्त्यै प्रयोजिताः ।
तत्साफल्येऽप्यसद्भिः किं कार्यं मत्र्यस्य कृच्छ्रजैः ॥
कामार्तेच्छोर्मोहशोकरागद्वेषश्रमादयः ।
यतोऽजितात्मनो नैति निद्रापि भयशङ्कया ॥
प्राणार्थेच्छा हि मधुकृच्छिक्षितेन मयोझ्झिता ।
राजार्थिहिंस्रचोरद्विट्कालेभ्यो न बिभेम्यतः ॥
निरिच्छः परितुष्टात्मा यदृच्छालाभतोऽस्मि सन् ।
बहुकालं शये नो चेद्विद्वान् धैर्यान्महाहिवत् ॥
भूर्यल्पं स्वादु वाऽस्वादु कदन्नं मानवर्जितम् ।
समानं क्वापि भुञ्जेऽह्नि निशि भुक्त्वापि वा न वा ॥
हरत्यन्यः पतिं हत्वा कृच्छ्राप्तं मधुवद्धनम् ।
शिक्षितं मधुकृत्तोऽतो विरक्तोऽस्म्यपरिग्रहः ॥
दैवाप्तं चर्म वल्कं वा वस्त्रं क्षौमं वसे न वा ।
क्वचिच्छयेऽश्मभस्मादौ कशिपौ वा जने वने ॥
क्वचित्स्नातोऽलङ्कृतोऽहं स्रग्वी सुवसनो न वा ।
रथेभाश्वौश्चरे क्वापि मुनिवत्क्वापि मुग्धवत् ॥
नाहं निन्दे न च स्तौमि स्वभावविषमं नरम् ।
एतेषां श्रेय आशास उतैकात्म्यमथात्मनि ॥
ब्रह्मासक्तो ब्रह्मनिष्ठो ब्रह्मात्मा ब्रह्मधीरहम् ।
संस्कृते ब्राह्मणेऽन्त्ये वा समदृग्गवि शुन्यपि ॥
समासमाभ्यां विषमसमे पूजात ओदनम् ।
नाद्यादित्यज्ञगृहिणो दोषो न समदृग्यतेः ॥
स्वरूपेऽवासनस्तिष्ठाम्यान्वीक्षिक्याऽनया दिवि ।
योऽमुमिच्छेत्तु तस्यायमुपायो विदुषः सुखः ॥
हुनेद्विकल्पं चित्तौ तां मनस्यर्थभ्रमे तु तत् ।
वैकारिके तं मायायां तां स्वस्मिन्विरमेत्ततः ॥
शुद्धः सोऽहं परात्मैक इति दार्ढ्ये विमुच्यते ।
हृदयं मे सुगुप्तं ते प्रोक्तं तत्त्वं विचारय ॥
इतीशेनोपदिष्टः स ज्ञात्वात्मानं प्रपूज्य च ।
तदाज्ञप्तो ययौ राज्यं कुर्वन्नपि स दैवभुक् ॥
राज्यश्रीपुत्रदाराढ्योऽलिप्तः स्वात्मदृक्सदा ।
भुक्त्वारब्धं चिरं राज्यं दत्वा पुत्रे विरोचने ॥
मुक्तसङ्गश्चचार क्ष्मां समदृक्स गुरूक्तवत् ॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीदत्तपुराणान्तर्गतं श्रीदत्तात्रेयहृदयं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now