|| श्री सीता कवचम् ||
अगस्तिरुवाच ।
या सीताऽवनिसम्भवाऽथ मिथिलापालेन संवर्धिता
पद्माक्षावनिभुक्सुताऽनलगता या मातुलुङ्गोद्भवा ।
या रत्ने लयमागता जलनिधौ या वेदपारं गता
लङ्कां सा मृगलोचना शशिमुखी मां पातु रामप्रिया ॥ १ ॥
अस्य श्रीसीताकवचमन्त्रस्य अगस्तिरृषिः श्रीसीता देवता अनुष्टुप् छन्दः रमेति बीजं जनकजेति शक्तिः अवनिजेति कीलकं पद्माक्षसुतेत्यस्त्रं मातुलुङ्गीति कवचं मूलकासुरघातिनीति मन्त्रः श्रीसीतारामचन्द्रप्रीत्यर्थं सकलकामना सिद्ध्यर्थं च जपे विनियोगः ।
अथ करन्यासः ।
ओं ह्रां सीतायै अङ्गुष्ठाभ्यां नमः ।
ओं ह्रीं रमायै तर्जनीभ्यां नमः ।
ओं ह्रूं जनकजायै मध्यमाभ्यां नमः ।
ओं ह्रैं अवनिजायै अनामिकाभ्यां नमः ।
ओं ह्रौं पद्माक्षसुतायै कनिष्ठिकाभ्यां नमः ।
ओं ह्रः मातुलुङ्ग्यै करतलकरपृष्ठाभ्यां नमः ।
अथ अङ्गन्यासः ।
ओं ह्रां सीतायै हृदयाय नमः ।
ओं ह्रीं रमायै शिरसे स्वाहा ।
ओं ह्रूं जनकजायै शिखायै वषट् ।
ओं ह्रैं अवनिजायै कवचाय हुम् ।
ओं ह्रौं पद्माक्षसुतायै नेत्रत्रयाय वौषट् ।
ओं ह्रः मातुलुङ्ग्यै अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ।
अथ ध्यानम् ।
सीतां कमलपत्राक्षीं विद्युत्पुञ्जसमप्रभाम् ।
द्विभुजां सुकुमाराङ्गीं पीतकौशेयवासिनीम् ॥ १ ॥
सिंहासने रामचन्द्रवामभागस्थितां वराम् ।
नानालङ्कारसम्युक्तां कुण्डलद्वयधारिणीम् ॥ २ ॥
चूडाकङ्कणकेयूररशनानूपुरान्विताम् ।
सीमन्ते रविचन्द्राभ्यां निटिले तिलकेन च ॥ ३ ॥
नूपुराभरणेनापि घ्राणेऽतिशोभितां शुभाम् ।
हरिद्रां कज्जलं दिव्यं कुङ्कुमं कुसुमानि च ॥ ४ ॥
बिभ्रतीं सुरभिद्रव्यं सुगन्धस्नेहमुत्तमम् ।
स्मिताननां गौरवर्णां मन्दारकुसुमं करे ॥ ५ ॥
बिभ्रतीमपरे हस्ते मातुलुङ्गमनुत्तमम् ।
रम्यहासां च बिम्बोष्ठीं चन्द्रवाहनलोचनाम् ॥ ६ ॥
कलानाथसमानास्यां कलकण्ठमनोरमाम् ।
मातुलुङ्गोद्भवां देवीं पद्माक्षदुहितां शुभाम् ॥ ७ ॥
मैथिलीं रामदयितां दासीभिः परिवीजिताम् ।
एवं ध्यात्वा जनकजां हेमकुम्भपयोधराम् ॥ ८ ॥
अथ कवचम् ।
श्रीसीता पूर्वतः पातु दक्षिणेऽवतु जानकी ।
प्रतीच्यां पातु वैदेही पातूदीच्यां च मैथिली ॥ ९ ॥
अधः पातु मातुलुङ्गी ऊर्ध्वं पद्माक्षजाऽवतु ।
मध्येऽवनिसुता पातु सर्वतः पातु मां रमा ॥ १० ॥
स्मितानना शिरः पातु पातु भालं नृपात्मजा ।
पद्माऽवतु भ्रुवोर्मध्ये मृगाक्षी नयनेऽवतु ॥ ११ ॥
कपोले कर्णमूले च पातु श्रीरामवल्लभा ।
नासाग्रं सात्त्विकी पातु पातु वक्त्रं तु राजसी ॥ १२ ॥
तामसी पातु मद्वाणीं पातु जिह्वां पतिव्रता ।
दन्तान् पातु महामाया चिबुकं कनकप्रभा ॥ १३ ॥
पातु कण्ठं सौम्यरूपा स्कन्धौ पातु सुरार्चिता ।
भुजौ पातु वरारोहा करौ कङ्कणमण्डिता ॥ १४ ॥
नखान् रक्तनखा पातु कुक्षौ पातु लघूदरा ।
वक्षः पातु रामपत्नी पार्श्वे रावणमोहिनी ॥ १५ ॥
पृष्ठदेशे वह्निगुप्ताऽवतु मां सर्वदैव हि ।
दिव्यप्रदा पातु नाभिं कटिं राक्षसमोहिनी ॥ १६ ॥
गुह्यं पातु रत्नगुप्ता लिङ्गं पातु हरिप्रिया ।
ऊरू रक्षतु रम्भोरूर्जानुनी प्रियभाषिणी ॥ १७ ॥
जङ्घे पातु सदा सुभ्रूर्गुल्फौ चामरवीजिता ।
पादौ लवसुता पातु पात्वङ्गानि कुशाम्बिका ॥ १८ ॥
पादाङ्गुलीः सदा पातु मम नूपुरनिःस्वना ।
रोमाण्यवतु मे नित्यं पीतकौशेयवासिनी ॥ १९ ॥
रात्रौ पातु कालरूपा दिने दानैकतत्परा ।
सर्वकालेषु मां पातु मूलकासुरघातिनी ॥ २० ॥
एवं सुतीक्ष्ण सीतायाः कवचं ते मयेरितम् ।
इदं प्रातः समुत्थाय स्नात्वा नित्यं पठेत्पुनः ॥ २१ ॥
जानकीं पूजयित्वा स सर्वान्कामानवाप्नुयात् ।
धनार्थी प्राप्नुयाद्द्रव्यं पुत्रार्थी पुत्रमाप्नुयात् ॥ २२ ॥
स्त्रीकामार्थी शुभां नारीं सुखार्थी सौख्यमाप्नुयात् ।
अष्टवारं जपनीयं सीतायाः कवचं सदा ॥ २३ ॥
अष्टभूसुरसीतायै नरैः प्रीत्यार्पयेत्सदा ।
फलपुष्पादिकादीनि यानि तानि पृथक् पृथक् ॥ २४ ॥
सीतायाः कवचं चेदं पुण्यं पातकनाशनम् ।
ये पठन्ति नरा भक्त्या ते धन्या मानवा भुवि ॥ २५ ॥
पठन्ति रामकवचं सीतायाः कवचं विना ।
तथा विना लक्ष्मणस्य कवचेन वृथा स्मृतम् ॥ २६ ॥
[*अधिकश्लोकाः –
तस्मात् सदा नरैर्जाप्यं कवचानां चतुष्टयम् ।
आदौ तु वायुपुत्रस्य लक्ष्मणस्य ततः परम् ॥
ततः पठेच्च सीतायाः श्रीरामस्य ततः परम् ।
एवं सदा जपनीयं कवचानां चतुष्टयम् ॥
*]
इति श्रीमदानन्दरामायणे मनोहरकाण्डे सुतीक्ष्णागस्त्यसंवादे श्रीसीतायाः कवचम् ।
Found a Mistake or Error? Report it Now