|| श्री नृसिंह स्तुतिः 2 ||
सुरासुरशिरोरत्नकान्तिविच्छुरिताङ्घ्रये ।
नमस्त्रिभुवनेशाय हरये सिंहरूपिणे ॥ १ ॥
शत्रोः प्राणानिलाः पञ्च वयं दश जयोऽत्र कः ।
इति कोपादिवाताम्राः पान्तु वो नृहरेर्नखाः ॥ २ ॥
प्रोज्ज्वलज्ज्वलनज्वालाविकटोरुसटाच्छटः ।
श्वासक्षिप्तकुलक्ष्माभृत्पातु वो नरकेसरी ॥ ३ ॥
व्याधूतकेसरसटाविकरालवक्त्रं
हस्ताग्रविस्फुरितशङ्खगदासिचक्रम् ।
आविष्कृतं सपदि येन नृसिंहरूपं
नारायणं तमपि विश्वसृजं नमामि ॥ ४ ॥
दैत्यास्थिपञ्जरविदारणलब्धरन्ध्र-
-रक्ताम्बुनिर्जरसरिद्धनजातपङ्काः ।
बालेन्दुकोटिकुटिलाः शुकचञ्चुभासा
रक्षन्तु सिंहवपुषो नखरा हरेर्वः ॥ ५ ॥
दिश्यात्सुखं नरहरिर्भुवनैकवीरो
यस्याहवे दितिसुतोद्दलनोद्यतस्य ।
क्रोधोद्धतं मुखमवेक्षितुमक्षमत्वं
जानेऽभवन्निजनखेष्वपि यन्नतास्ते ॥ ६ ॥
वपुर्दलनसम्भ्रमात्स्वनखरं प्रविष्टे रिपौ
क्व यात इति विस्मयात्प्रहितलोचनः सर्वतः ।
वृथेति करताडनान्निपतितं पुरो दानवं
निरीक्ष्य भुवि रेणुवज्जयति जातहासो हरिः ॥ ७ ॥
चटच्चटिति चर्मणि च्छमिति चोच्छलच्छोणिते
धगद्धगिति मेदसि स्फुटरवेऽस्थिनि ष्ठागिति ।
पुनातु भवतो हरेरमरवैरिवक्षःस्थल
क्वणत्करजपञ्जरक्रकचकाषजन्माऽनलः ॥ ८ ॥
ससत्वरमितस्ततस्ततविहस्तहस्ताटवी-
-निकृत्तसुरशत्रुहृत्क्षतजसिक्तवक्षःस्थलः ।
स्फुरद्वरगभस्तिभिः स्थगितसप्तसप्तिद्युतिः
समस्तनिगमस्तुतो नृहरिरस्तु नः स्वस्तये ॥ ९ ॥
चञ्चच्चण्डनखाग्रभेदविगलद्दैत्येन्द्रवक्षःक्षर-
-द्रक्ताभ्यक्तसुपाटलोद्भटसदासम्भ्रान्तभीमाननः ।
तिर्यक्कण्ठकठोरघोषघटनासर्वाङ्गखर्वीभव-
-द्दिङ्मातङ्गनिरीक्षितो विजयते वैकुण्ठकण्ठीरवः ॥ १० ॥
दंष्ट्रासङ्कटवक्त्रकन्दरललज्जिह्वस्य हव्याशन-
-ज्वालाभासुरभूरिकेसरसटाभारस्य दैत्यद्रुहः ।
व्यावल्गद्बलवद्धिरण्यकशिपुक्रोडस्थलास्फालन
स्फारप्रस्फुटदस्थिपञ्जररवक्रूरा नखाः पान्तु वः ॥ ११ ॥
सोमार्धायितनिष्पधानदशनः सन्ध्यायितान्तर्मुखो
बालार्कायितलोचनः सुरधनुर्लेखायितभ्रूलतः ।
अन्तर्नादनिरोधपीवरगलत्त्वक्कूपनिर्यत्तडि-
-त्तारस्फारसटावरुद्धगगनः पायान्नृसिंहः स वः ॥ १२ ॥
विद्युच्चक्रकरालकेसरसटाभारस्य दैत्यद्रुहः
शोणन्नेत्रहुताशडम्बरभृतः सिंहाकृतेः शार्ङ्गिणः ।
विस्फूर्जद्गलगर्जितर्जितककुम्मातङ्गदर्पोदयाः
संरम्भाः सुखयन्तु वः खरनखक्षुण्णद्विषद्वक्षसः ॥ १३ ॥
दैत्यानामधिपे नखाङ्कुरकुटीकोणप्रविष्टात्मनि
स्फारीभूतकरालकेसरसटासङ्घातघोराकृतेः ।
सक्रोधं च सविस्मयं च सगुरुव्रीडं च सान्तःस्मितं
क्रीडाकेसरिणो हरेर्विजयते तत्कालमालोकितम् ॥ १४ ॥
किं किं सिंहस्ततः किं नरसदृशवपुर्देव चित्रं गृहीतो
नैतादृक्क्वापि जीवोऽद्भुतमुपनय मे देव सम्प्राप्त एषः ।
चापं चापं न चापीत्यहहहहहहा कर्कशत्वं नखानां
इत्थं दैत्येन्द्रवक्षः खरनखमुखरैर्जघ्निवान्यः स वोऽव्यात् ॥ १५ ॥
भूयः कण्ठावधूतिव्यतिकरतरलोत्तंसनक्षत्रमाला-
-बालेन्दुक्षुद्रघण्टारणितदशदिशादन्तचीत्कारकारी ।
अव्याद्वो दैत्यराजप्रथमयमपुरीयानघण्टानिनादो
नादो दिग्भित्तिभेदप्रसरसरभसः कूटकण्ठीरवस्य ॥ १६ ॥
अन्तःक्रोधोज्जिहानज्वलनभवशिखाकारजिह्वावलीढ
प्रौढब्रह्माण्डभाण्डः पृथुभुवनगुहागर्भगम्भीरनादः ।
दृप्यत्पारीन्द्रमूर्तिर्मुरजिदवतु वः सुप्रभामण्डलीभिः
कुर्वन्निर्धूमधूमध्वजनिचितमिव व्योम रोमच्छटानाम् ॥ १७ ॥
पायान्मायामृगेन्द्रो जगदखिलमसौ यत्तनूदर्चिरर्चिः
ज्वालाजालावलीढं बत भुवि सकलं व्याकुलं किं न भूयात् ।
न स्याच्चेदाशु तस्याधिकविकटसटाकोटिभिः पाट्यमानात्
इन्दोरानन्दकन्दात्तदुपरि तुहिनासारसन्दोहवृष्टिः ॥ १८ ॥
आदित्याः किं दशैते प्रलयभयकृतः स्वीकृताकाशदेशाः
किं वोल्कामण्डलानि त्रिभुवनदहनायोद्यतानीति भीतैः ।
पायासुर्नारसिंहं वपुरमरगणैर्बिभ्रतः शार्ङ्गपाणेः
दृष्टादृप्तासुरोरस्थलदरणगलद्रक्तरक्ता नखा वः ॥ १९ ॥
इति श्री नृसिंह स्तुतिः ।
Found a Mistake or Error? Report it Now