Download HinduNidhi App
Misc

श्री वेदव्यास अष्टोत्तरशतनाम स्तोत्रम् – २

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

|| श्री वेदव्यास अष्टोत्तरशतनाम स्तोत्रम् – २ ||

ध्यानम् –
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ १ ॥

व्यासं वसिष्ठनप्तारं शाक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ २ ॥

अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः ।
सर्वान् लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु ॥ ३ ॥

अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः ।
अभाललोचनः शम्भुर्भगवान् बादरायणः ॥ ४ ॥

अथ स्तोत्रम् –
नारायणकुलोद्भूतो नारायणपरो वरः ।
नारायणावतारश्च नारायणवशंवदः ॥ १ ॥

स्वयम्भूवंशसम्भूतो वसिष्ठकुलदीपकः ।
शक्तिपौत्रः पापहन्ता पराशरसुतोऽमलः ॥ २ ॥

द्वैपायनो मातृभक्तः शिष्टः सत्यवतीसुतः ।
स्वयमुद्भूतवेदश्च चतुर्वेदविभागकृत् ॥ ३ ॥

महाभारतकर्ता च ब्रह्मसूत्रप्रजापतिः ।
अष्टादशपुराणानां कर्ता श्यामः प्रशिष्यकः ॥ ४ ॥

शुकतातः पिङ्गजटः प्रांशुर्दण्डी मृगाजिनः ।
वश्यवाग्ज्ञानदाता च शङ्करायुः प्रदः शुचिः ॥ ५ ॥

मातृवाक्यकरो धर्मी कर्मी तत्वार्थदर्शकः ।
सञ्जयज्ञानदाता च प्रतिस्मृत्युपदेशकः ॥ ६ ॥

तथा धर्मोपदेष्टा च मृतदर्शनपण्डितः ।
विचक्षणः प्रहृष्टात्मा पूर्वपूज्यः प्रभुर्मुनिः ॥ ७ ॥

वीरो विश्रुतविज्ञानः प्राज्ञश्चाज्ञाननाशनः ।
ब्राह्मकृत्पाद्मकृद्धीरो विष्णुकृच्छिवकृत्तथा ॥ ८ ॥

श्रीभागवतकर्ता च भविष्यरचनादरः ।
नारदाख्यस्यकर्ता च मार्कण्डेयकरोऽग्निकृत् ॥ ९ ॥

ब्रह्मवैवर्तकर्ता च लिङ्गकृच्च वराहकृत् ।
स्कान्दकर्ता वामनकृत्कूर्मकर्ता च मत्स्यकृत् ॥ १० ॥

गरुडाख्यस्यकर्ता च ब्रह्माण्डाख्यपुराणकृत् ।
कर्ता चोपपुराणानां पुराणः पुरुषोत्तमः ॥ ११ ॥

काशिवासी ब्रह्मनिधिर्गीतादाता महामतिः ।
सर्वज्ञः सर्वसिद्धिश्च सर्वाशास्त्रप्रवर्तकः ॥ १२ ॥

सर्वाश्रयः सर्वहितः सर्वः सर्वगुणाश्रयः ।
विशुद्धः शुद्धिकृद्दक्षो विष्णुभक्तः शिवार्चकः ॥ १३ ॥

देवीभक्तः स्कन्दरुचिर्गाणेशकृच्च योगवित् ।
पौलाचार्य ऋचः कर्ता शाकल्यार्यास्तथैव च ॥ १४ ॥

यजुः कर्ता च जैमिन्याचार्याश्च सामकारकः ।
सुमन्त्वाचार्यवर्यश्च तथैवाथर्वकारकः ॥ १५ ॥

रोमहर्षणसूतार्यो लोकाचार्यो महामुनिः ।
व्यासकाशीरतो विश्वपूज्यो विश्वेशपूजकः ॥

शान्ताः शान्ताकृतिः शान्तचित्तः शान्तिप्रदस्तथा ॥ १६ ॥

इति श्री वेदव्यास अष्टोत्तरशतनाम स्तोत्रम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री वेदव्यास अष्टोत्तरशतनाम स्तोत्रम् - २ PDF

श्री वेदव्यास अष्टोत्तरशतनाम स्तोत्रम् - २ PDF

Leave a Comment